मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३६, ऋक् १९

संहिता

नि त्वाम॑ग्ने॒ मनु॑र्दधे॒ ज्योति॒र्जना॑य॒ शश्व॑ते ।
दी॒देथ॒ कण्व॑ ऋ॒तजा॑त उक्षि॒तो यं न॑म॒स्यन्ति॑ कृ॒ष्टयः॑ ॥

पदपाठः

नि । त्वाम् । अ॒ग्ने॒ । मनुः॑ । द॒धे॒ । ज्योतिः॑ । जना॑य । शश्व॑ते ।
दी॒देथ॑ । कण्वे॑ । ऋ॒तऽजा॑तः । उ॒क्षि॒तः । यम् । न॒म॒स्यन्ति॑ । कृ॒ष्टयः॑ ॥

सायणभाष्यम्

हे अग्ने ज्योतिः प्रकाशरूपं त्वां शश्वते बहुविधाय जनाय मनुः प्रजापतिर्नि दधे । देवयजनदेशे स्थापितवान् । हे अग्ने त्वमृतजात ऋतेन यज्ञेन निमित्तभूतेन्नोत्पन्न उक्षितो हविर्भिस्तर्पितः सन् कण्व एतन्नामके महर्षौ दीदेथ । दीप्तवानसि । यमग्निं कृष्टयो मनुष्याः । कृष्वयश्चर्षणय इति मनुष्यनामसु पठितत्वात् । नमस्यंति नमस्कुर्वंति । स त्वमिति पूर्वत्रान्वयः ॥ दीदेथ । दीदेतिश्छांदसो दीप्तिकर्मा । थलि द्विर्वचनप्रकरणे छंदसि वेति वक्तव्यम् । का ६-१-८-१ । इति द्विर्वचनाभावः । अनित्यमागमशासनमिति वचनादिडिभावः । लित्सर्वेण प्रत्ययात्पूर्वस्योदात्तत्वम् । ऋतजातः । ऋते जन्यत इत्यृतजातः । श्वीदितो निष्ठायामितीट् प्रतिषेधः । जनसनेत्यादिनात्वम् । तृतीयापूर्वपदप्रकृतिस्वरत्वम् । नमस्यंति । नमोवरिवः (पा ३-१-१९) इति पूङार्थे क्यच् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे क्यजंतधातुस्वरः । कृष्टयः । कृष विलेखने । क्तिच् क्तौ च संज्ञायामिति क्तिच् ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११