मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३७, ऋक् १

संहिता

क्री॒ळं व॒ः शर्धो॒ मारु॑तमन॒र्वाणं॑ रथे॒शुभ॑म् ।
कण्वा॑ अ॒भि प्र गा॑यत ॥

पदपाठः

क्री॒ळम् । वः॒ । शर्धः॑ । मारु॑तम् । अ॒न॒र्वाण॑म् । र॒थे॒ऽशुभ॑म् ।
कण्वाः॑ । अ॒भि । प्र । गा॒य॒त॒ ॥

सायणभाष्यम्

हे कण्वाः कण्वगोत्रोत्पन्ना महर्षयः । यद्वा । मेधाविन ऋत्विजः । वो युष्मदर्थं मारुतं मरुत्समूहरूपं शर्धो बलमभि प्र गायत । अभितः प्रकर्षेण स्तुध्वम् । कीदृशं शर्धः । क्रीळं विहरणशीलं अनर्वाणं भ्रातृव्यरहितम् । अत एव श्रुत्यंतरब्राह्मणेन मंत्रांतरमेव व्याख्यातम् । अनर्वा प्रेहीत्याह भ्रातृव्यो वा अर्वा भ्रातृव्यापनुत्या इति । रथेशुभं स्वकीये रथेऽवस्थाय शोभमानं ॥ क्रीळम् । क्रीडृ विहारे । पचाद्यच् । शर्धः । शृधु प्रसहने । शर्धयत्यनेन शत्रूनिति शर्धो बलम् । असुन् । नित्त्वादाद्युदात्तत्वम् । मारुतं मरुतां संबंधि । तस्येदमित्यण् । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । समूहार्थेऽनुदात्तेरञ् (पा ४-२-४४) इत्यनुदात्तादिलक्षणोऽञ् प्रत्ययः । अनर्वाणम् । व्यत्ययेन पुल्लिंगता । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । रथेशुभम् । शुभ दीप्तौ । रथे शोभत इति रथेशुप् । क्विप्चेति क्विप् । तत्पुरुषे कृति बहुलमिश्यलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । गायत । कैगैरै शब्द । तिङ्ङतिङ इति निघातः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२