मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३७, ऋक् २

संहिता

ये पृष॑तीभिरृ॒ष्टिभि॑ः सा॒कं वाशी॑भिर॒ञ्जिभि॑ः ।
अजा॑यन्त॒ स्वभा॑नवः ॥

पदपाठः

ये । पृष॑तीभिः । ऋ॒ष्टिऽभिः॑ । सा॒कम् । वाशी॑भिः । अ॒ञ्जिऽभिः॑ ।
अजा॑यन्त । स्वऽभा॑नवः ॥

सायणभाष्यम्

ये मरुतः पृषत्यादिभिः साकं स्वभानवः स्वकीयदीप्तियुक्ता अजायंत इति संपन्नाः । पृषत्यो बिंदुयुक्ता मृग्यो मरुद्वाहनभूताः । पृषत्यो मरुतामिति निघंटावुक्तत्वात् । ऋष्टय आयुधानि । वाश्यः शब्दविशेषाः परकीयसेनाभीतिहेतवः । वाशी वाणीति वाङ्नामसु पठितत्वात् । अंजयोऽलंकरणानि । तान् स्तुम इति शेषः ॥ अजायंत । जनीप्रादुर्भावे । श्यनि ज्ञाजनोर्जा (पा ७-३-७९) इति जादेशः । अडागम उदात्तः । स्वभानवः । स्वकीया भानवो येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२