मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३७, ऋक् ४

संहिता

प्र व॒ः शर्धा॑य॒ घृष्व॑ये त्वे॒षद्यु॑म्नाय शु॒ष्मिणे॑ ।
दे॒वत्तं॒ ब्रह्म॑ गायत ॥

पदपाठः

प्र । वः॒ । शर्धा॑य । घृष्व॑ये । त्वे॒षऽद्यु॑म्नाय । शु॒ष्मिणे॑ ।
दे॒वत्त॑म् । ब्रह्म॑ । गा॒य॒त॒ ॥

सायणभाष्यम्

हे ऋत्विजः वो युष्माकं संबंधिने शर्धाय प्रसहनशीलाय घृष्वये शत्रुघर्षणयुक्ताय त्वेषद्युम्नाय दीप्यमानयशसे । द्युम्नं द्योततेर्यशोवान्नं वेति यास्कः (नि ५-५) शुष्मिणे बलवते । शुष्मं शुष्णमिति बलनामसु पाठात् । एवंभूताय मरुद्गणाय ब्रह्म हविर्लक्षणमन्नमुद्दिश्य प्र गायत । स्तुध्वम् । कीदृशं ब्रह्म । देवत्तं देवैर्दत्तम् । देवतानुग्रहाल्लब्धं ॥ शर्धाय शृधु प्रसहने । शर्धयत्यभिभवतीति शर्धो बलम् । पचाद्यच् । वृषादित्वादाद्युदात्तत्वम् । घृष्वये । घृष संघर्षे । कृविघृष्वीत्यादिना (उ ४-५६) क्विन्प्रत्ययांतो निपातितः । त्वेषद्युम्नाय त्विष दीप्तौ । पचाद्यच् । त्वेषं दीप्तं द्युम्नं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । देवत्तम् । देवैर्दत्तम् । छांदसोवर्णलोपः । उक्तं च । द्वौ चापरौ वर्णविकारनाशौ । का ६-३-१०९ । इति । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२