मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३७, ऋक् ६

संहिता

को वो॒ वर्षि॑ष्ठ॒ आ न॑रो दि॒वश्च॒ ग्मश्च॑ धूतयः ।
यत्सी॒मन्तं॒ न धू॑नु॒थ ॥

पदपाठः

कः । वः॒ । वर्षि॑ष्ठः । आ । न॒रः॒ । दि॒वः । च॒ । ग्मः । च॒ । धू॒त॒यः॒ ।
यत् । सी॒म् । अन्त॑म् । न । धू॒नु॒थ ॥

सायणभाष्यम्

दिवश्च द्युलोकस्यापि ग्मश्च भूलोकस्यापि । गौर्ग्मेति भूनामसु पठितत्वात् । धूतयः कंपनकारिणो । हे नरो नेतारो मरुतो वो युष्माकं मध्य आ समंताद्वर्षिष्ठो वृद्धतमः कः । यद्यस्मात्कारणात्सीं सर्वतोंऽतं न वृक्षाग्रमिव धूनुथ चालयथ । तस्मात्कारणात्कंपयितृणां युष्माकं मध्ये कः प्रबल इति प्रश्नः ॥ वर्षिष्ठः । वृद्धशब्दादिष्ठनि प्रियस्थिरेत्यादिना वर्षादेशः । नित्त्वादाद्युदात्तः । ग्मः । ग्माशब्दात् षष्ठ्येकवचन आतो धातोरित्यत्र आत इति योगविभागः कर्तव्यः । का ६-४-१४० । इत्युक्तत्वादाकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । धूतयः । धूञ् कंपने । क्तिच् क्तौ च संज्ञायामिति क्तिच् । तितुत्रेत्यादिनेट् प्रतिषेधः । आमंत्रितस्य चेति सर्वानुदात्तत्वम् । धूनुथ । स्वादिभ्यः श्नुः । सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वचनात्सति शिष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधते । अतस्तिङ एव स्वरः । यद्वृत्तयोगादनिघातः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३