मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३७, ऋक् ८

संहिता

येषा॒मज्मे॑षु पृथि॒वी जु॑जु॒र्वाँ इ॑व वि॒श्पति॑ः ।
भि॒या यामे॑षु॒ रेज॑ते ॥

पदपाठः

येषा॑म् । अज्मे॑षु । पृ॒थि॒वी । जु॒जु॒र्वान्ऽइ॑व । वि॒श्पतिः॑ ।
भि॒या । यामे॑षु । रेज॑ते ॥

सायणभाष्यम्

हे मरुतो येषां युष्माकं यामेषु गमनेष्वज्मेषु क्षेपकेषु सत्सु पृथिवी भूमिः रेजते कंपते । तत्र दृष्टांतः । जुजुर्वा इव विश्पतिः । यथा वयोहानिरोगादिना जीर्णः प्रजापालको राजा वैरिभयात्कंपते तद्वत् ॥ अज्मेषु । अज गतिक्षेपणयोः । बहुलग्रहणादौणादिको मन् । अजेर्व्यघञपोः (पा २-४-५६) इति वीभावो न भवति । वलादावार्धधातुके विकल्प इष्यते । का २-४-५६-२ । इति वचनात् । नित्त्वादाद्युदात्तत्वम् । जुजुर्वान् । जृष् वयोहान् । लिटः क्वसुः । बहुलं छंदसि (पा ७-१-१०३) इत्युत्वम् । अभ्यासहलादिशेषौ । वस्वेकाजाद्घसामिति नियमादिडागमाभावः । ऋच्छत्यृताम् (पा ७-४-११) इति गुणो हलि चेति दीर्घत्वं च संज्ञापूर्वको विधिरनित्य इति वचनान्न भवति । विशां पतिर्विश्पतिः । पत्यावैश्वर्य इति पूर्वपदप्रकतृतिस्वरे प्राप्ते परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । भिया । सावेकाच इति विभक्तेरुदात्तत्वम् । यावेषु । यम उपरमे । भावे घञ् । कर्षात्वतो घञ इत्यंतोदात्तत्वे प्राप्ते वृषादिषु पाठादाद्युदात्तत्वम् । रेजते । रेजृ कंपने । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३