मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३७, ऋक् ९

संहिता

स्थि॒रं हि जान॑मेषां॒ वयो॑ मा॒तुर्निरे॑तवे ।
यत्सी॒मनु॑ द्वि॒ता शवः॑ ॥

पदपाठः

स्थि॒रम् । हि । जान॑म् । ए॒षा॒म् । वयः॑ । मा॒तुः । निःऽए॑तवे ।
यत् । सी॒म् । अनु॑ । द्वि॒ता । शवः॑ ॥

सायणभाष्यम्

एषां मरुतां जानं जन्मस्थानमाकाशं स्थिरं हि । चलनरहितं खलु । मातुर्मरुतां जननीस्थानीयादाकाशाद्वयः पक्षिणो निरेतवे निर्गंतुं समर्था भवंतीति शेषः । तादृशादाकाशाद्भवज्जन्मेति मरुतां स्तुतिः । यद्यस्मात्कारणाच्छवो भवदीयं बलमनुक्रमेण सीं सर्वतो द्विता द्वित्वेन द्यावापृथिव्योर्विभज्य वर्तते । अतो भवदीयं जानं स्थिरं हीति पूर्वत्रान्वयः ॥ जानम् । जन्यतेऽस्मिन्निति जानमंतरिक्षम् । अधिकरणे घञ् । एषाम् । इदमोऽन्वादेश इत्यशादेशोऽनुदात्तः । विभक्तिश्च सुप्त्वादनुदात्ता । न चोडिदमित्यादिना विभक्त्युदात्तत्वम् । अंतोदात्तादिदंशब्दात्तस्य विधानात् । निरेतवे । इण् गतौ । तमर्थे सेसेनिति तवेन्प्रत्ययः । तादौ चेति गतेः प्रकृतिस्वरत्वं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३