मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३७, ऋक् १२

संहिता

मरु॑तो॒ यद्ध॑ वो॒ बलं॒ जनाँ॑ अचुच्यवीतन ।
गि॒रीँर॑चुच्यवीतन ॥

पदपाठः

मरु॑तः । यत् । ह॒ । वः॒ । बल॑म् । जना॑न् । अ॒चु॒च्य॒वी॒त॒न॒ ।
गि॒रीन् । अ॒चु॒च्य॒वी॒त॒न॒ ॥

सायणभाष्यम्

हे मरुतो यद्ध यस्मादेव कारणाद्वो युष्माकं बलमस्ति अस्मादेव कारणाज्जनान्प्राणिनोऽचुच्यवीतन । स्वस्वव्यापारेषु प्रेरयत । तथा गिरीन्मेघान् अचुच्यवीतन । प्रेरयत ॥ मरुतः । आमंत्रिताद्युदात्तत्वम् । अचुच्यवीतन । च्यवतेर्लुङि व्यत्ययेन परस्मैपदम् । तप्तनप्तनथनाश्चेति तस्य तनबादेशः । बहुलं छंदसीति शपः श्लुः । बहुलं छंदसि (पा ७-३-९७) इतीडागमः । गुणावादेशौ । तिङ्ङतिङ इति निघातः । गिरीन् । दीर्घादट समानपाद इति संहितायां नकारस्य रुत्वम् । अत्रानुनासिक इतीकारस्यानुनासिकः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४