मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३७, ऋक् १३

संहिता

यद्ध॒ यान्ति॑ म॒रुत॒ः सं ह॑ ब्रुव॒तेऽध्व॒न्ना ।
शृ॒णोति॒ कश्चि॑देषाम् ॥

पदपाठः

यत् । ह॒ । यान्ति॑ । म॒रुतः॑ । सम् । ह॒ । ब्रु॒व॒ते॒ । अध्व॑न् । आ ।
शृ॒णोति॑ । कः । चि॒त् । ए॒षा॒म् ॥

सायणभाष्यम्

यद्ध यदा खलु मरुतो यांति गच्छंति तदानीमध्वन्ना मार्गे सर्वतः सं ब्रुवते ह । संभूय ध्वनिमवत्यं कुर्वंति । एषां मरुतां संबंधिनं शब्दं कश्चित् यः कोऽपि शृणोति ॥ यांति । या प्रापणे । अदादित्वाच्छपो लुक् । झोंऽत इत्यंतादेशस्योपदेशिवद्भावादंतीत्येतदाद्युदात्तत्वम् । धातुना सहैकादेश एकादेशस्वरः । यद्वृत्तयोगादनिघातः । ब्रुवते । ब्रूञ् व्यक्तायां वाचि । झस्यादादेशे कृते । परत्वात्प्राप्तस्य गुणस्य ङुत्वेन बाधितत्वादुवङादेशः । अध्वन् । सुपां सुलुगिति सप्तम्या लुक् । शृणोति । तिपः पित्त्वादनुदात्तत्वे विकरणस्वरः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४