मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३८, ऋक् १

संहिता

कद्ध॑ नू॒नं क॑धप्रियः पि॒ता पु॒त्रं न हस्त॑योः ।
द॒धि॒ध्वे वृ॑क्तबर्हिषः ॥

पदपाठः

कत् । ह॒ । नू॒नम् । क॒ध॒ऽप्रि॒यः॒ । पि॒ता । पु॒त्रम् । न । हस्त॑योः ।
द॒धि॒ध्वे । वृ॒क्त॒ऽब॒र्हि॒षः॒ ॥

सायणभाष्यम्

हे मरुतः कद्ध कदा खलु नूनमवश्यं हस्तयोर्दधिध्वे । यूयमस्मान्हस्ते धारयथ । तत्र दृष्टांतः । पिता पुत्रं न हस्तयोः । यथा लोके पिता हस्तयोः स्वकीयं पुत्रं धारयति तद्वत् । कीदृशा मरुतः । कधप्रियः स्तुतिप्रीताः वृक्तबर्हिषः वृक्तं छिन्नं बर्हिर्दर्भो येषां मरुतां यजमानाय ते मरुतस्तथाविधाः ॥ कत् । कदा । द्वौ चापरौ वर्णविकारनाशौ । का ६-३-१०९ । इत्युक्तत्वादाकारलोपः । कधप्रियः । कथा स्तुतिः । तया प्रीणंतीति कधप्रियः । प्रीञ् प्रीतौ । क्विप् । पूर्वपदस्य ङ्यापोः संज्ञाच्छंदसोर्बहुलम् (पा ६-३-६३) इति ह्रस्वत्वम् । धकारश्छांदसः । आमंत्रितनिघातः । दधिध्वे । दधातेश्छंदसि लुङ् लङ् लिट इति वर्तमाने लिट् । क्रादिनियमादिट् । प्रत्ययस्वरः । वृक्तबर्हिषः । आमंत्रितनिघातः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५