मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३८, ऋक् २

संहिता

क्व॑ नू॒नं कद्वो॒ अर्थं॒ गन्ता॑ दि॒वो न पृ॑थि॒व्याः ।
क्व॑ वो॒ गावो॒ न र॑ण्यन्ति ॥

पदपाठः

क्व॑ । नू॒नम् । कत् । वः॒ । अर्थ॑म् । गन्ता॑ । दि॒वः । न । पृ॒थि॒व्याः ।
क्व॑ । वः॒ । गावः॑ । न । र॒ण्य॒न्ति॒ ॥

सायणभाष्यम्

हे मरुतो नून मिदानीं क्व । यूयं कुत्र स्थिताः । कत् कदा वो युप्माकमर्थमरणं देवयजनदेशे गमनम् । विलंबं मा कुरुतेत्यर्थः । दिवो गंत । द्युलोकाद्गच्छथ । पृथिव्या न गंत । भूलोकान्मा गच्छत । वो युष्णान् क्व रण्यंति । देवयजनरूपायाः पृथिव्या अन्यत्र कुत्र शब्दयंति । यजमानाः स्तुवंति । तत्र दृष्टांतः । गावो न । यथा गावो रणंति । शब्दयंति । तद्वत् ॥ क्व । किं शब्दात्सप्तम्यंतात्किमोऽत् (पा ५-३-१२) इत्यत्प्रत्ययः । क्वाति (पा ७-२-१०५) इति किमः क्वादेशः । तित्स्वरित इति स्वरितत्वम् । अर्थम् । ऋ गतौ । उषिकुषिगार्तिभ्यस्थन् (उ २-४) इति भावे थन् । नित्त्वादाद्युदात्तत्वम् । गंत । गमेर्लोट बहुलं छंदसीति शपो लुक् । थादेशस्य तस्य तप्तनप्तनथनाश्चेति तबादेशः । अत एव ङत्त्वाभावादनुदात्तोपदेशेत्यादिनानुसिकलोपो न भवति । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वम् । दिवः । ऊडिदमिति विभक्तेरुदात्तत्वम् । पृथिव्याः । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वम् । रण्यंति । रणतिः शब्दार्थः । व्यत्ययेन श्यन् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५