मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३८, ऋक् ३

संहिता

क्व॑ वः सु॒म्ना नव्यां॑सि॒ मरु॑त॒ः क्व॑ सुवि॒ता ।
क्वो॒३॒॑ विश्वा॑नि॒ सौभ॑गा ॥

पदपाठः

क्व॑ । वः॒ । सु॒म्ना । नव्यां॑सि । मरु॑तः । क्व॑ । सु॒वि॒ता ।
क्वो॒३॒॑ इति॑ । विश्वा॑नि । सौभ॑गा ॥

सायणभाष्यम्

हे मरुतो वो युष्माकं संबंधीनि नव्यांसि नवतराणि सुम्ना प्रजापशुरूपाणि धनानि । प्रजा वै पशवः सुम्नम् । तै । सं ५-४-६-६ । इति श्रुत्यंतरात् । क्व कुत्र वर्तंते । तथा सुविता शोभनानि प्राप्याणि मणिमुक्तादीनि भवदीयानि क्व कुत्र वर्तंते । विश्वानि सर्वाणि सौभगा सौभाग्यरूपाणि गजाश्वादीनि क्वो कुत्र वा वर्तंते । भवदीयैः सुम्नादिभिः सर्वैः सहागंतव्यमित्यर्थः ॥ सुम्ना । शेश्छंदसि बहुलमिति शेर्लोपः । नव्यांसि । नवशब्दादीयसुनीकारलोपश्छांदसः । सुविता । सुष्ठु इतानि सुवितानि । तन्वादीनां छंदसि बहुलमुपसंख्यानम् । पा ६-४-७७-१ । इत्युवङादेशः । सौभगा । सुभगान्मंत्र इति तस्य भाव इत्यर्थेऽञ् । पूर्ववच्छेर्लोपः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५