मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३८, ऋक् ४

संहिता

यद्यू॒यं पृ॑श्निमातरो॒ मर्ता॑स॒ः स्यात॑न ।
स्तो॒ता वो॑ अ॒मृतः॑ स्यात् ॥

पदपाठः

यत् । यू॒यम् । पृ॒श्नि॒ऽमा॒त॒रः॒ । मर्ता॑सः । स्यात॑न ।
स्तो॒ता । वः॒ । अ॒मृतः॑ । स्यात् ॥

सायणभाष्यम्

हे पृश्निनामकधेनुपुत्रा मरुतो यूयं यद्यपि मर्तासो मनुष्याः स्यातन भवेत तथापि वो युष्माकं स्तोता यजमानोऽमृतः स्यात् । देवो भवेत् ॥ पृश्निमातरः । पृश्निर्माता येषां ते । समासांतविधेरनित्यत्वान्नद्यृतश्च (पा ५-४-१५३) इति कबभावः । मर्तासः । असिहसीत्यादिना । म्रियतेस्तन्प्रत्ययः । आज्जसेरसुक् । स्यातन । अस्तेर्लिङि तस्य । तप्तनप्तनथनाश्चेति तनादेशः । यासुट उदात्तत्वम् । अमृतः । नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५