मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३८, ऋक् ५

संहिता

मा वो॑ मृ॒गो न यव॑से जरि॒ता भू॒दजो॑ष्यः ।
प॒था य॒मस्य॑ गा॒दुप॑ ॥

पदपाठः

मा । वः॒ । मृ॒गः । न । यव॑से । ज॒रि॒ता । भू॒त् । अजो॑ष्यः ।
प॒था । य॒मस्य॑ । गा॒त् । उप॑ ॥

सायणभाष्यम्

हे मरुतो वो युष्माकं जरिता स्तोताजोष्योऽसेव्यो मा भूत् । तत्र दृष्टांतः । मृगो न यवसे । यथा तृणे भक्षणीये मृगः कदाचिदप्यसेव्यो न भवति किंतु सर्वदा तृणं भक्षयति तद्वत् । किंच स स्तोता यमस्य पथा यम लोकसंबंधिमार्गेण मोप गात् । मा गच्छतु । तस्य मरणं मा भूदित्यर्थः । जरिता जृष् वयोहानौ । स्तुतिकर्मेति यास्कः । नि १०-८ । तृचीडागमः । चित्त्वादंतोदात्तत्वं भूत् । लुङि गातिस्थेति सिचो लुक् । न माङ्योग इत्यडभावः । अजोष्यः । जुषी प्रीतिसेवनयोः । ऋहलोर्ण्यदिति कर्मणि ण्यत् । नञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । पथा । तृतीयैकवचने भस्य टीर्लोपः (पा ७-१-८८) इति टलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । गात् । एतेर्लुङीणो गा लुङीति गादेशः । गातिस्थेति सिचो लुक् । पूर्ववदडभावः ॥ १५ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५