मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३८, ऋक् ६

संहिता

मो षु ण॒ः परा॑परा॒ निरृ॑तिर्दु॒र्हणा॑ वधीत् ।
प॒दी॒ष्ट तृष्ण॑या स॒ह ॥

पदपाठः

मो इति॑ । सु । नः॒ । परा॑ऽपरा । निःऽऋ॑तिः । दुः॒ऽहना॑ । व॒धी॒त् ।
प॒दी॒ष्ट । तृष्ण॑या । स॒ह ॥

सायणभाष्यम्

हे मरुतो नोऽस्मान् निर्ऋतिः रक्षोजातिदेवता मो षु वधीत् । सर्वथा वधं मा कार्षीत् । कीदृशी । परापरा उत्कृष्टादप्युत्कृष्टा । अतिबलेत्यर्थः । अत एव दुर्हणा केनापि हंतुं दुःशक्या । सानिर्ऋतिस्तृष्णया सह पदीष्ट । पततु । अस्मदीया तृष्णाबाधिका निर्ऋतिश्च विनश्यत्वित्यर्थः ॥ मो षु णः । सुञ इति षत्वम् । नश्च धातुस्थोरुषभ्य इति णत्वम् । दुर्हणा । ईषद्दुः सुष्वित्यादिना हंते कर्मणि खल् । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । वधीत् । लुङि हंतेर्लुङि च (पा २-४-४३) इति वधादेशः । सचीडागमः । वधादेशस्यादंतत्वादेकाच उपदेश इतीट् प्रतिषेधो न भवति । अतो लोपे सति तस्य स्थानिवत्त्वादतो हलादेः (पा ७-२-७) इति वृद्ध्यभावः । इट ईट (पा ८-२-२८) इति सिचो लोपः । पदीष्ट । पद गतौ आशीर्लिङि छंदस्युभयथेति सार्वधातुकत्वात्सलोपः । अर्धधातुकत्वात्सुडागमः । प्रत्ययस्वरः । तृष्णया । ञितृषा पिपासायाम् । तृषिशुषिरसिभ्यः किच्च (उ ३-१२) इति नप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६