मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३८, ऋक् ८

संहिता

वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒त्सं न मा॒ता सि॑षक्ति ।
यदे॑षां वृ॒ष्टिरस॑र्जि ॥

पदपाठः

वा॒श्राऽइ॑व । वि॒ऽद्युत् । मि॒मा॒ति॒ । व॒त्सम् । न । मा॒ता । सि॒ष॒क्ति॒ ।
यत् । ए॒षा॒म् । वृ॒ष्टिः । अस॑र्जि ॥

सायणभाष्यम्

कारीर्यां मारुतं सप्तकपालमित्यस्य हविषो वाश्रेव विद्युदित्येषानुवाक्या । वर्षकामेष्टिरिति खंडे सूत्रितम् । वाश्रेव विद्युन्मिमाति पर्वतश्चिन्महि वृद्धो बिभाय (आ २-१३) इति ॥

वाश्रेव शब्दयुक्ता प्रस्तुतस्तनवती धेनुरिव विद्युन्मेघस्था दृश्यमाना सती मीमाति । शब्दं करोति । विद्युद्वेलायां हि मेघगर्जनं प्रसिद्धम् । माता धेनुर्वत्सं न वत्समिव सिषक्ति । इयं विद्युन्मरुतः सेवते । सिषक्तिः सेवनार्थः । सिषक्तु सचत इति सेवमानस्य (नि ३-२१) इति यास्केनोक्तत्वात् । यद्यस्मात्कारणादेषां मरुतां संबंधिनी वृष्टिरसर्जि गर्जनसहिते विद्युत्काले वृष्टा भवति । तस्माद्विद्युतो मरुत्सेवनमुपपन्नं ॥ वाश्रेव । वाशृ शब्दे स्छायितंचीत्यादिना रक् । मिमाति । माङ् माने शब्दे च । वृत्ययेन परस्मैपदम् । जुहोत्यादित्वात् श्लुः । भृञामित् (पा ७-४-७६) इत्यभ्यासस्येत्वम् । सिषक्ति । षच समवाये । लट बहुलं छंदसीति शपः श्लुः । बहुलं छंदसीत्यभ्यासस्येत्वम् । असर्जि । सृज विसर्गे । कर्मणि लुङ् । चिण् भावकर्मणोः (पा ३-१-६६) इति चिण् । चिणो लुक् (पा ६-४-१०४) इति तशब्दस्य लुक् । गुणः । अडागम उदात्तः । यद्वृत्तयोगादनिघातः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६