मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३८, ऋक् ९

संहिता

दिवा॑ चि॒त्तमः॑ कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑ ।
यत्पृ॑थि॒वीं व्यु॒न्दन्ति॑ ॥

पदपाठः

दिवा॑ । चि॒त् । तमः॑ । कृ॒ण्व॒न्ति॒ । प॒र्जन्ये॑न । उ॒द॒ऽवा॒हेन॑ ।
यत् । पृ॒थि॒वीम् । वि॒ऽउ॒न्दन्ति॑ ॥

सायणभाष्यम्

ते मरुत उदवाहेनोदकधारिणा पर्जन्येन मेघेन सूर्यमाच्छाद्य दिवा चिदहन्यपि तमः कृण्वंति । अंधकारं कुर्वंति यद्यदा पृथिवीं भूमिं व्युंदंति । विशेषेण क्लेदयंति । तदानीमतिवृष्टिकाले तमः कुर्वंतीति पूर्वत्रान्वयः ॥ उदवाहेन । उदकानि वहतीत्युदवाहः । कर्मण्यण् । मेघविशेषस्येयं संज्ञा । उदकस्योदः संज्ञायाम् (पा ६-३-५७) इत्युदकशब्दस्योदभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । व्युंदंति । उंदी क्लेदने । रुधादित्वात् श्नम् । श्नान्नलोपः (पा ६-४-२३) इति नलोपः । यद्वृत्तयोगादनिघातः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६