मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३८, ऋक् ११

संहिता

मरु॑तो वीळुपा॒णिभि॑श्चि॒त्रा रोध॑स्वती॒रनु॑ ।
या॒तेमखि॑द्रयामभिः ॥

पदपाठः

मरु॑तः । वी॒ळु॒पा॒णिऽभिः॑ । चि॒त्राः । रोध॑स्वतीः । अनु॑ ।
या॒त । ई॒म् । अखि॑द्रयामऽभिः ॥

सायणभाष्यम्

हे मरुतो यूयं वीळुपाणिभिर्दृढहस्तैः सहिताः संतो रोधस्वतीरनु कूलयुक्ता नदीरनुलक्ष्याखिद्रयामभिरच्छिन्नगमनैर्यातेम् । गच्छतैव ॥ मरुतः । आमंत्रिताद्युदात्तत्वम् । वीळुपाणिभिः । वीड्विति बलनाम । वीळु च्यौत्नमिति तन्नामसु पाठात् । तेन च तद्वाल्लक्ष्यते । वीळवश्च ते पाणयश्च । समासस्येत्यंतोदात्तत्वम् । रोधस्वतीः । रुधिर् आवरणे । रुणद्धि स्रोत इति रोधः कूलम् । रोधः कूल निरुणदि स्रोतः (नि ६-१) इत्युक्तत्वात् । असुनो नित्त्वादाद्युदात्तत्वम् । तद्युक्ता रोधस्वत्यः । मादुपधाया इति मतुपो वत्वम् । उगितश्चेति । ङीप् । मतुब्ङीपोः पित्त्वादनुदात्तत्वेऽसुनः स्वर एव शिष्यते । यात या प्रापणे । अदादित्वाच्छपो लुक् । ईम् । चादयोऽनुदात्ता इत्यनुदात्तत्वम् । गुण एकादेश उदात्तेनोदात्त इत्युदात्तत्वम् । अखिद्रयामभिः । खिद दैन्ये । स्फायितंचीत्यादिना रक् । खिद्रं यांतीति खिद्रयामानः । न खिद्रयामानोऽखिद्रयामानः । तैः । अव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७