मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३८, ऋक् १४

संहिता

मि॒मी॒हि श्लोक॑मा॒स्ये॑ प॒र्जन्य॑ इव ततनः ।
गाय॑ गाय॒त्रमु॒क्थ्य॑म् ॥

पदपाठः

मि॒मी॒हि । श्लोक॑म् । आ॒स्ये॑ । प॒र्जन्यः॑ऽइव । त॒त॒नः॒ ।
गाय॑ । गा॒य॒त्रम् । उ॒क्थ्य॑म् ॥

सायणभाष्यम्

हे ऋत्विक्समूह आस्ये स्वकीयमुखे श्लोकं स्तोत्रं मिमीह । निर्मितं कुरु । तं च श्लोकं ततनः । विस्तारय । तत्र दृष्टांतः । पर्जन्य इव । यथा मेघो वृष्टिं विस्तारयति तद्वत् । उक्थ्यं शस्त्रयोग्यं गायत्रं गायत्रीच्छंदस्कं सूक्तं गाय । पठ ॥ मिमीहि । माङ् माने । जौहोत्यादिकः । व्यत्ययेन परस्मैपदम् । भृञामिदित्यभ्यासस्येत्वम् । आस्ये । असु क्षेपणे । अस्यते क्षिप्यतेऽस्मिन्नित्यास्यम् । कृत्यल्ल्युटो बहुलम् । पा ३-३११३ । इत्यधिकरणे ण्यत् । तित्स्वरितमिति स्वरितत्वम् । ततनः । तनु विस्तारे । लेट सिपि बहुलं छंदसीति विकरणस्य श्लुः । लेटोऽडाटावित्यडागमः । इतश्च लोपः इतीकारलोपः । गायत्रम् । गायत्र्याः संबंधि तस्येदमित्यण् । यद्वा । गायतस्त्रायत इति गायत्रम् । आतोऽनुपसर्गे कः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७