मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३८, ऋक् १५

संहिता

वन्द॑स्व॒ मारु॑तं ग॒णं त्वे॒षं प॑न॒स्युम॒र्किण॑म् ।
अ॒स्मे वृ॒द्धा अ॑सन्नि॒ह ॥

पदपाठः

वन्द॑स्व । मारु॑तम् । ग॒णम् । त्वे॒षम् । प॒न॒स्युम् । अ॒र्किण॑म् ।
अ॒स्मे इति॑ । वृ॒द्धाः । अ॒स॒न् । इ॒ह ॥

सायणभाष्यम्

हे ऋत्विक्संघ मारुतं मरुत्संबंधिनं गणं समूहं वंदस्व । नमस्कुरु स्तुहि वा । कीदृशं गणम् । त्वेषं दीप्तं, पनस्युं स्तुतियोग्यं, अर्किणमर्चनोपेतम् । अस्मे अस्माकमिहास्मिन्कर्मणि वृद्ध्या असन् । मरुतः प्रवृद्धा भवंतु ॥ वंदस्व । वदि अभिवादनस्तुत्योः । अदुपदेशाल्लसार्पधातुकानुदात्तत्वे धातुस्वरः । पनस्युम् । पन चेति स्तुत्यर्थो धातुः । असुन् । पनः स्तोत्रमात्मन इच्छतीति पनस्युः । सुप आत्मनः क्यच् । क्याच्छंदसीत्युप्रत्ययः । अर्किणम् । ऋच स्तुतौ पुंसि संज्ञायामिति घः । अर्कोऽस्यास्तीत्यर्की । अत इनिठनौ । असन् । बहुलं छंदसीति शपो लुगभावः । इतश्च लोप इतीकारलोपः । तिङ्ङतिङ इति निघातः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७