मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३९, ऋक् १

संहिता

प्र यदि॒त्था प॑रा॒वतः॑ शो॒चिर्न मान॒मस्य॑थ ।
कस्य॒ क्रत्वा॑ मरुत॒ः कस्य॒ वर्प॑सा॒ कं या॑थ॒ कं ह॑ धूतयः ॥

पदपाठः

प्र । यत् । इ॒त्था । प॒रा॒ऽवतः॑ । शो॒चिः । न । मान॑म् । अस्य॑थ ।
कस्य॑ । क्रत्वा॑ । म॒रु॒तः॒ । कस्य॑ । वर्प॑सा । कम् । या॒थ॒ । कम् । ह॒ । धू॒त॒यः॒ ॥

सायणभाष्यम्

हे धूतयः स्थावरादीनां कंपनकारिणो मरुतो यद्यदा मानं मननीयं युष्मद्बलं परावतो दूरात् । आरे परावत इति दूरनामसु पाठात् । इत्थास्मादंतरिक्षात्प्रास्यथ भूमौ प्रक्षिपथ । तत्र दृष्टांतः । शोचिर्न तेज इव । यथा सूर्यस्य तेजोंऽतरिक्षाद्भूमौ प्रक्षिप्यते तद्वत् । तदानीं यूयं कस्य यजमानस्य क्रत्वा क्रतुना संगच्छध्व इति शेषः । तथा कस्य यजमानस्य वर्पसा स्तोत्रेण संगच्छध्वे । कं यजमानमुद्धिश्य याथ । देवयजनदेसे गच्छथ । कं ह कं खलु यजमानमनुगृहीथेति शेषः ॥ इत्था । था हेतौ च च्छंदसि । पा । सू । ५-३-२६ । इतीदंशब्दात्प्रकारवचने थाप्रत्ययः । यदि तत्रेदंशब्दस्य नानुवृत्तिस्तर्हि थमुप्रत्ययांतादिदंशब्दादुत्तरस्या विभक्तेर्व्यत्ययेन सुपां सुलुगिति डादेशः । प्रथमपक्षे प्रत्ययस्वरः । द्वितीयपक्षे तूदात्तनिवृत्तिस्वरः । अस्यथ । असुक्षेपणे । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम् । यद्वृत्तयोगादनिघातः । क्रत्वा । जसादिषु च्छंदसि वा वचनम् । पा सू ७-३-१०९-१ । इति नाभावस्य विकल्पितत्वादभावः । वर्पसा । वृङ् संभक्तौ । वृङ् शीङ् भ्यां रूपस्वांगयोः पुक्च (उ ४-२००) इत्यसुन् । तत्सन्नियोगेन पुगागमश्च । नित्त्वादाद्युदात्तत्वम् । अत्र रूपाभिधायिना वर्पस् शब्देन देवतास्वरूपप्रकाशकं स्तोत्रं लक्ष्यते, क्रतुना साहचर्यात् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८