मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३९, ऋक् २

संहिता

स्थि॒रा वः॑ स॒न्त्वायु॑धा परा॒णुदे॑ वी॒ळू उ॒त प्र॑ति॒ष्कभे॑ ।
यु॒ष्माक॑मस्तु॒ तवि॑षी॒ पनी॑यसी॒ मा मर्त्य॑स्य मा॒यिनः॑ ॥

पदपाठः

स्थि॒रा । वः॒ । स॒न्तु॒ । आयु॑धा । प॒रा॒ऽनुदे॑ । वी॒ळु । उ॒त । प्र॒ति॒ऽस्कभे॑ ।
यु॒ष्माक॑म् । अ॒स्तु॒ । तवि॑षी । पनी॑यसी । मा । मर्त्य॑स्य । मा॒यिनः॑ ॥

सायणभाष्यम्

हे मरुतो व आयुधा युष्माकमायुधानि पराणुदे शत्रूणामपनोदनाय स्थिरा संतु स्थिराणि भवंतु । उतापि च प्रतिष्कभे शत्रूणां प्रतिबंधाय वीळु संतु । दृढानि संतु । युष्माकं तविषी बलं पनीयसी अतिशयेन स्तोतव्यं भवतु । मायिनोऽस्मासु च्छद्मचारिणो मर्त्यस्य मनुष्यस्य शत्रोर्मा । बलं मा भवतु ॥ स्थिरा । आयुधा । उभयत्र शेश्छंदसि बहुलमिति शेर्लोपः । पराणुदे । णुद प्रेरणे । संपदादिलक्षणः क्विप् । उपसर्गादसमासेऽपि (पा ८-४-१४) इति णत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । वीळु । सुपां सुलुगिति विभक्तेर्लुक् । ईषाअक्षादित्वात्प्रकृतिभावः । पा ६-१-१२७-२ । प्रतिष्कुभे । स्कन्भुः सौत्रो धातुः । संपदादिलक्षणो भावे क्विप् । अनिदितामिति नलोपः । पनीयसी । पनतिः स्तुत्यर्थः । अस्मादौणादिकः कर्मण्यसुन् । तत ईयसुनि टीरिति टलोपः । उगितश्चेति ङीप् । ईयसुनो नित्त्वादाद्युदात्तत्वम् । मायिनः । मायाशब्दस्य व्रीह्यादिषु पाठात् व्रीह्यादिभ्यश्चेति मत्वर्थीय इनिः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८