मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३९, ऋक् ३

संहिता

परा॑ ह॒ यत्स्थि॒रं ह॒थ नरो॑ व॒र्तय॑था गु॒रु ।
वि या॑थन व॒निनः॑ पृथि॒व्या व्याशा॒ः पर्व॑तानाम् ॥

पदपाठः

परा॑ । ह॒ । यत् । स्थि॒रम् । ह॒थ । नरः॑ । व॒र्तय॑थ । गु॒रु ।
वि । या॒थ॒न॒ । व॒निनः॑ । पृ॒थि॒व्याः । वि । आशाः॑ । पर्व॑तानाम् ॥

सायणभाष्यम्

हे नरो नेतारो मरुतो यद्यदा स्थिरं वसु पराहथ वृक्षादिकं पराहतं भग्नं कुरुथ । गुरु पाषाणादिकं गुरुत्वोपेतं वर्तयथ प्रेरयथ । तदानीं पृथिव्याः संबंधिनो वनिनो वनवतो वृक्षान्वियाथन । वियुज्य मध्ये गच्छथ । अरण्यगतानां निबिडानां वृक्षाणां मध्ये यस्य कस्यापि वृक्षस्य भग्नत्वादितरवृक्षाणां परस्परवियोगेन प्रौढो मार्गो भवति । तथा पर्वतानामाशाः पर्वतपार्श्वदिशो वियाथन । वियुज्य गच्चथ ॥ पथ ॥ हन हिंसागत्योः अनुदात्तोपदेशेत्यादिना अनुनासिकलोपः । यद्वृत्तयोगादनिघातः । नरः पादादित्वादामंत्रितनिघाताभावः । वर्तयथ । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे णिचः स्वर एव शिष्यते । यच्छब्धानुषंगान्निघाताभावः । याथन । तप्तनप्तनथनाश्चेति थनादेशः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८