मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३९, ऋक् ५

संहिता

प्र वे॑पयन्ति॒ पर्व॑ता॒न्वि वि॑ञ्चन्ति॒ वन॒स्पती॑न् ।
प्रो आ॑रत मरुतो दु॒र्मदा॑ इव॒ देवा॑स॒ः सर्व॑या वि॒शा ॥

पदपाठः

प्र । वे॒प॒य॒न्ति॒ । पर्व॑तान् । वि । वि॒ञ्च॒न्ति॒ । वन॒स्पती॑न् ।
प्रो इति॑ । आ॒र॒त॒ । म॒रु॒तः॒ । दु॒र्मदाः॑ऽइव । देवा॑सः । सर्व॑या । वि॒शा ॥

सायणभाष्यम्

पर्वतान् मेरुहिमवदादीन् प्रवेपयंति । मरुतः प्रकर्षेण कंपयंति । वनस्पतीन् । वटांश्चाश्वत्थादींश्च विंचंति । परस्परवियुक्तान्कुर्वंति । हे मरुतो देवासो देवां सर्वयां विशा प्रजया सहिता यूयं फ्रो आरत । प्रकर्षेणैव सर्वतो गच्छत । तत्र दृष्टांतः । दुर्मदा इव । यथा मदोन्मत्ताः स्वेच्छया सर्वतः क्रीडंति तद्वत् ॥ वेपयंति । टुवेपृ कंपने । वेपमानान् प्रयुंजते । हेतुमण्णिच् । विंचंति विचिर् पृथग्भावे । रुधादित्वात् श्नम् । श्नसोरल्पोप इत्यकारलोपः । वनस्पतीन् । वनानां पतयो वनस्पतयः । पारस्करादित्वात्सुट् । वनस्पतिशब्दावाद्युदात्तौ । उभे वनस्पत्यादिषु युगपदिति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । आरत । ऋ गतौ । लङि मध्यमबहुवचने बहुलं छंदसीति शपो लुगभावः । यद्वा लुङ् । सर्तिशास्त्यर्तिभ्यश्च (पा ३-१-५६) इत्यङ् । आडजादीनामित्याडागमः । आटश्च (पा ६-१-९०) इति वृद्धिः । देवासः । अमंत्रिताद्युदात्तत्वम् । सर्वया । सर्वस्य सुपि (पा ६-१-१९१) इत्याद्युदात्तत्वम् । विशा । सावेकाच इति विभक्तेरुदात्तत्वं ॥ १८ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८