मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३९, ऋक् ७

संहिता

आ वो॑ म॒क्षू तना॑य॒ कं रुद्रा॒ अवो॑ वृणीमहे ।
गन्ता॑ नू॒नं नोऽव॑सा॒ यथा॑ पु॒रेत्था कण्वा॑य बि॒भ्युषे॑ ॥

पदपाठः

आ । वः॒ । म॒क्षु । तना॑य । कम् । रुद्राः॑ । अवः॑ । वृ॒णी॒म॒हे॒ ।
गन्त॑ । नू॒नम् । नः॒ । अव॑सा । यथा॑ । पु॒रा । इ॒त्था । कण्वा॑य । बि॒भ्युषे॑ ॥

सायणभाष्यम्

हे रुद्रा रुद्रपुत्रा मरुतः तनाय कं आस्मदीयपुत्रार्थं मक्षु शीघ्रं वो युष्मदीयमवो रक्षणमावृणीमहे । सर्वतः प्रार्थयामहे । मक्ष्विति क्षिप्रनाम , नु मक्ष्विति तन्नामसु पठितत्वात् । पुरा पूर्वस्मिन्काले कर्मांतरेषु नोऽवसास्मदीयरक्षणेन निमित्तेन यूयं यथा प्राप्तवंतः । इत्थानेन प्रकारेण बिभ्युषे भीतियुक्ताय कण्वाय मेधाविने यजमानाय तदनुग्रहार्थं नूनं क्षिप्रं गंत । प्राप्नुत ॥ मक्षु । ऋचि तुनुघमक्षुतङ् कुत्रोरुष्याणामिति दीर्घः । तनाय । तनो तीति तनः । पचाद्यच् । वृषादित्वादाद्युदात्तत्वम् । यद्वा तनयशब्देऽय् इत्यस्य लोपश्छांदसः । कमित्येत्पादांते प्रयुज्यमानं पादपूरणम् । शिशिरं जीवनाय कमितिवत् । उक्तं च । अथापि पादपूरणाः कमीमिद्वितीति । रुद्राः । रोदयंतीति रुद्राः । रोदेर्णिलुक्च (उ २-२२) इति रक्प्रत्ययः । आमंत्रिताद्युदात्तत्वम् । पादादित्वान्निघाताभावः । गंत । लोट बहुलं छंदसीति शपो लुक् । तप्तनबित्यादिना तबादेशः । अतः पित्त्वादनुनासिकलोपाभावः । बिभ्युषे । बिभेतेर्लिटः क्वसुः । वस्वेकाजाद्घसामिति नियमादिडभावः । चतुर्थ्येकवचने वसोः संप्रसारणमिति संप्रसारणम् । परपूर्वत्वम् । शासिवसिघसीनां चेति षत्वं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९