मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४०, ऋक् २

संहिता

त्वामिद्धि स॑हसस्पुत्र॒ मर्त्य॑ उपब्रू॒ते धने॑ हि॒ते ।
सु॒वीर्यं॑ मरुत॒ आ स्वश्व्यं॒ दधी॑त॒ यो व॑ आच॒के ॥

पदपाठः

त्वाम् । इत् । हि । स॒ह॒सः॒ । पु॒त्र॒ । मर्त्यः॑ । उ॒प॒ऽब्रू॒ते । धने॑ । हि॒ते ।
सु॒ऽवीर्य॑म् । म॒रु॒तः॒ । आ । सु॒ऽअश्व्य॑म् । दधी॑त । यः । वः॒ । आ॒ऽच॒क्रे ॥

सायणभाष्यम्

हे सहसस्पुत्र बलस्य बहुपालक ब्रह्मणस्पते । पुत्रः पुरु त्रायते निपरणाद्वेति निरुक्तम् (नि २-११) मर्त्यो मनुष्यो हिते शत्रुषु प्रक्षिप्ते धन निमित्तभूते सति त्वामित् । त्वामेवोपब्रूते हि । समीपं प्राप्य स्तौति खलु । तद्धनसंपादनाय प्रार्थयत इत्यर्थः । हे मरुतो यो धनार्थी मर्त्यो वो युष्मान् ब्रह्मणस्पतिसहितानाचके स्तौति । स मर्त्यः स्वश्व्यं शोभनाश्वयुक्तं सुवीर्यं शोभनवीर्ययुक्तं च धनं दधीत । धारयेत् ॥ सहसस्पुत्र । ब्रह्मणस्पत इतिवत् । षष्ठ्याः पतिपुत्रेति विसर्जनीयस्य सत्वम् । उपब्रूते । हि चेति निघातप्रतिषेधः । तिङि चोदात्तवतीति गतेरनुदात्तत्वम् । हिते । निष्ठायां दधातेर्हिरिति हिरादेशः । सुवीर्यम् । शोभनं वीर्यं यस्येति बहुव्रीहौ वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । स्वश्व्यम् । अश्वानां समूहोऽश्वीयम् । केशाश्वाभ्यां यञ्छाव्यतरस्याम् (पा ४-२-४८) इति समूहार्थे छप्रत्ययः । छस्य ईयादेशः । शोभनमश्वीयं यस्य तत् स्वश्व्यम् । ईकारलोपश्छांदसः । परादश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । दधीत । सीयुटः सकारलोपे सत्यभ्यस्तानामादिरित्याद्युदात्तत्वम् । पादादित्वान्निघाताभावः । आचके । कै गै रै शब्दे । आदेच इत्यात्वम् । लिटि द्विर्वचनेऽभ्यासस्य ह्रस्वचुत्वे । आतो लोप इट चेत्याकारलोपः । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०