मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४०, ऋक् ३

संहिता

प्रैतु॒ ब्रह्म॑ण॒स्पति॒ः प्र दे॒व्ये॑तु सू॒नृता॑ ।
अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः ॥

पदपाठः

प्र । ए॒तु॒ । ब्रह्म॑णः । पतिः॑ । प्र । दे॒वी । ए॒तु॒ । सू॒नृता॑ ।
अच्छ॑ । वी॒रम् । नर्य॑म् । प॒ङ्क्तिऽरा॑धसम् । दे॒वाः । य॒ज्ञम् । न॒य॒न्तु॒ । नः॒ ॥

सायणभाष्यम्

चतुर्विंशेऽहनि मरुत्वतीय उत्तिष्ठ ब्रह्मणस्पत इत्यस्मात्प्रगाथात्पूर्वं प्रैतु ब्रह्मणस्पतिरित्ययं प्रगाथो विनियुक्तः । सूत्रं तूत्तिष्ठं ब्रह्मणस्पत इत्यत्रैवोदाहृतं ॥ महावीरमादाय शालां प्रतिगच्छत्सु प्रैतु ब्रह्मणस्पतिरित्येतां पठन् होतानुगच्छेत् । सूत्रं च । प्रैतु ब्रह्मणस्पतिरित्यनुव्रजेत् (आ ४-७) इति ॥ एषैवाग्नीषोमीयप्रणयनेऽपि नियुक्ता । सूत्रितं च । प्रैतु ब्रह्मणस्पति र्होता देवो अमर्त्यः (आ ४-१०) इति ॥

ब्रह्मणस्पतिर्देवः प्रैतु । अस्मान्प्राप्नोतु । सूनृता देवी प्रियसत्यरूपा वाग्देवता प्रैतु । अस्मान्प्राप्नोतु । देवा ब्रह्मणस्पत्यादयो देवता वीरं शत्रुं निःशेषेण दूरे प्रेरयंतु । तं नर्यं मनुष्येभ्यो हितं पंक्तिराधसं ब्राह्मणोक्तहविष्पंक्त्यादिभिः । समृद्धं यज्ञं प्रति नोऽस्मान् अच्छाभिमुख्येन नयंतु ॥ प्रैतु । एङि पररूपम् (पा ६-१-९४) इति पररूपे प्राप्त एत्येधत्यूट्सु (पा ६-१-८९) इति वृद्धिः । देव्येत्वित्यत्रोदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्येति स्वरितत्वम् । नर्यम् । नरेभ्यो हितम् । प्राक् क्रीतीय उगवादिलक्षणो यत्प्रत्ययो द्रष्वव्यः (पा ५-१-२) पंक्तिराधसम् । पंक्तिभी राध्नोति पंक्तिराधाः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च (उ ४-२२६) इत्यसुन् । पूर्वपदप्रकृतिस्वरत्वं च । यज्ञम् । यजयाचेत्यादिना यजतेर्नङ् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०