मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४०, ऋक् ४

संहिता

यो वा॒घते॒ ददा॑ति सू॒नरं॒ वसु॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रवः॑ ।
तस्मा॒ इळां॑ सु॒वीरा॒मा य॑जामहे सु॒प्रतू॑र्तिमने॒हस॑म् ॥

पदपाठः

यः । वा॒घते॑ । ददा॑ति । सू॒नर॑म् । वसु॑ । सः । ध॒त्ते॒ । अक्षि॑ति । श्रवः॑ ।
तस्मै॑ । इळा॑म् । सु॒ऽवीराम् । आ । य॒जा॒म॒हे॒ । सु॒ऽप्रतू॑र्तिम् । अ॒ने॒हस॑म् ॥

सायणभाष्यम्

यो यजमानो वाघते ऋुत्विजे सूनरं सुष्ठु नेतव्यं वसु धनं ददाति स यजमानो ब्रह्मणस्पतेः प्रसादादक्षिति क्षयरहितं श्रवोन्नं धत्ते । धारयति । तस्मै तादृशयजमानायेळामेतन्नामधेयां मनोः पुत्रीम् । इळा वै मानवी यज्ञानुकाशिन्यासीदिति श्रुत्यंतरात् । आ यजामहे । वयमृत्विजः सर्वतो यजामः । कीदृशीमिळाम् । सुवीरां शोभनैर्वीरैर्भटैर्युक्तां सुप्रतूर्तिं सुष्ठु प्रकर्षेण हिंसाकारिणीं अनेहसं केनाप्यहिंस्यां ॥ ददाति । अनुदात्ते चेत्यभ्यस्तस्याद्युदात्तत्वम् । यद्वृत्तयोगादनिघातः । सूनरम् । सुखेन नीयत इति सूनरम् । ईषद्दुःसुष्विति खल् । निपातस्य चेत्युपसर्गस्य दीर्घत्वम् । अक्षिति । क्षयो नास्त्यस्येत्यक्षिति । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । नञ्सुभ्यामिति तु सर्वे विधयश्छंदसि विकल्प्यंत इति वचनान्न प्रवर्तते । श्रवः । श्रूयत इति श्रवः । श्रु श्रवणे । असुनो नित्त्वादाद्युदात्तत्वम् । सुवीरा । शोभना वीरा यस्याः सा सुवीरा । ताम् । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । सुप्रतूर्तिम् । तुर्वी हिंसार्थः । प्रपूर्वादस्माद्भावे क्तिन् । शोभना प्रतूर्तिः शत्रूणां हिंसनं यस्याः सा । ताम् । परादिश्छंदसि बहुलमित्यत्तरपदाद्युदात्तत्वं ॥ क्रत्वादिर्वा द्रष्टव्यः । अनेहसम् । न हन्यत इत्यनेहाः । नञि हन एह च (उ ४-२२३) इत्यसुन्प्रत्ययो धातोरेहादेशश्च । नलोपो नञः (पा ६-३-७३) इति नकारस्य लोपः । तस्मान्नुडचि (पा ६-३-७४) इति नुट् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०