मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४०, ऋक् ५

संहिता

प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं॑ वदत्यु॒क्थ्य॑म् ।
यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओकां॑सि चक्रि॒रे ॥

पदपाठः

प्र । नू॒नम् । ब्रह्म॑णः । पतिः॑ । मन्त्र॑म् । व॒द॒ति॒ । उ॒क्थ्य॑म् ।
यस्मि॑न् । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । दे॒वाः । ओकां॑सि । च॒क्रि॒रे ॥

सायणभाष्यम्

अग्निष्टोमे मरुत्वतीयशस्त्र इंद्रनिवहप्रगाथानंतरं प्र नूनमिति प्रगाथः । मरुत्वतीयेनेति खंडे सूत्रितम् । प्र नूनं ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यः । आ ५-१४ ॥ इति ॥

ब्रह्मणस्पतिर्देव उक्थ्यं शस्त्रयोग्यं मंत्रं नूनमवश्यं प्र वदति । होतृमुखे स्थितः सन् प्रब्रूते । यस्मिन्मंत्र इंद्रादयश्च सर्वे देवा ओकांसि स्थानानि चक्रिरे । तादृशं सर्वदेवप्रतिपादकं मंत्रमिति पूर्वत्रान्वयः ॥ मंत्र । मत्रि गुप्तभाषणे । पचाद्यच् । वृषादिषु पाठादाद्युदात्तत्वम् । उक्थ्यम् । उक्थार्हम् । छंदसि चेत्यर्हार्थे यप्रत्ययः । यद्वा । भवे छंदसीति यत् । सर्वे विधयश्छंदसि विकल्प्यंत इति वचनाद्यतोऽनाव इत्याद्युदात्तत्वाभावे व्यत्ययेन तित्स्वरितमिति स्वरितत्वम् । ओकांसि । उच समवाये । समवयंत्यत्रेत्यधिकरण औणादिकोऽसुन् । बहुलग्रहणात् कुत्वं द्रष्टव्यमित्योक उचः के (पा ७-३-६४) इत्यत्र वृत्तावित्युक्तम् । चक्रिरे । इरेचश्चित्त्वादंतोदात्तत्वम् । यद्वृत्तयोगादनिघातः ॥ २० ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०