मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४०, ऋक् ६

संहिता

तमिद्वो॑चेमा वि॒दथे॑षु श॒म्भुवं॒ मन्त्रं॑ देवा अने॒हस॑म् ।
इ॒मां च॒ वाचं॑ प्रति॒हर्य॑था नरो॒ विश्वेद्वा॒मा वो॑ अश्नवत् ॥

पदपाठः

तम् । इत् । वो॒चे॒म॒ । वि॒दथे॑षु । श॒म्ऽभुव॑म् । मन्त्र॑म् । दे॒वाः॒ । अ॒ने॒हस॑म् ।
इ॒माम् । च॒ । वाच॑म् । प्र॒ति॒ऽहर्य॑थ । न॒रः॒ । विश्वा॑ । इत् । वा॒मा । वः॒ । अ॒श्न॒व॒त् ॥

सायणभाष्यम्

हे देवा ब्रह्मणस्पतिप्रभृतयस्तमित् तमेवेंद्रादिसर्वदेवताप्रतिपादकं मंत्रं विदथेषु यज्ञेषु वोचेम । वयमृत्विजो ब्रवाम । कीदृशम् । शंभुवं सुखस्य भावयितारं अनेहसमहिंसनीयं दोषरहितम् । हे नरो नेतारो देवा इमामस्माभिरुच्यमानां मंत्ररूपां वाचं प्रतिहर्यथ च । यूयं कामयध्वे चेत् । तर्हि विश्वेत् सर्वापि वामा वननीया वाक् वो युष्मानश्नवत् । व्याप्नुयात् । वोचेम । वप परिभाषणे । आशीर्लिङि लिङ्याशिष्यङित्यङ् । वच उमित्युमागमः । छंदस्सुभ्ययथेति सार्वधातुकत्वाल्लिङः सलोपोऽनंत्यस्येति यासुटः सकारस्य लोपः । अतो येय इतीयादेशः, आद्गुणः । तिङ्ङतिङ इति निघातः । विदथेषु । विद । ज्ञाने विद्यते फलसाधनत्वेन ज्ञायत इति विदथो यज्ञः । रुविदिभ्यां कित् (उ ३-११६) इत्यथप्रत्ययः । शंभुवम् । भवतेरंतर्भावितण्यर्थात् क्विप्छेति क्विप् । ओः सुपि (पा ६-४-८३) इति यणादेशस्य न भूसुधियोः (पा ६-४-८५) इति प्रतिषेधः । मंत्रादयो गताः । प्रतिहर्यथ । हर्य गतिकांत्योः । शपः पित्त्वा दनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरेणाद्युदात्तत्वम् । इमां चेत्यत्र चशब्दश्चेदर्थः । चणिति निपातांतरं न च समुच्चयाद्यर्थः । तेन निपातैर्यद्यदिहंतहुविन्नेच्चेच्चण् (पा ८-१-३०) इति निघातप्रतिषेधः । अश्नवत् । अशू व्याप्तौ । लेड्यडागमः । व्यत्ययेन परस्मैपदम् । इतश्च लोप इतीकारलोपः । इयङुवङ् भ्यां गुणवृद्धी भवतो विप्रतिषेधेन । का ६-४-७७ ॥ इति गुणः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१