मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४०, ऋक् ७

संहिता

को दे॑व॒यन्त॑मश्नव॒ज्जनं॒ को वृ॒क्तब॑र्हिषम् ।
प्रप्र॑ दा॒श्वान्प॒स्त्या॑भिरस्थितान्त॒र्वाव॒त्क्षयं॑ दधे ॥

पदपाठः

कः । दे॒व॒ऽयन्त॑म् । अ॒श्न॒व॒त् । जन॑म् । कः । वृ॒क्तऽब॑र्हिषम् ।
प्रऽप्र॑ । दा॒श्वान् । प॒स्त्या॑भिः । अ॒स्थि॒त॒ । अ॒न्तः॒ऽवाव॑त् । क्षय॑म् । द॒धे॒ ॥

सायणभाष्यम्

देवयंतं देवान्कामयमानं जनं कोऽश्नवत् । ब्रह्मणस्पतिव्यतिरिक्तः को नाम देवो व्याप्नुयात् । तथा वृक्तबर्हिषमनुष्ठानाय च्छिन्न बर्हिषं यजमानं को नामान्यो देवोऽश्नवत् । दाश्वान् हविर्दत्तवान्यजमानः पस्त्याभिर्मनुष्यैर्ऋत्विग्भिः सह प्रप्रास्थित । देवयजनदेशं प्रति प्रस्थितवान् । अंतर्वावत् । अंतः स्थितबहुधनोपेतम् । यद्वा । अंतः । स्थितपुत्रपौत्रादिप्रयुक्तबहुविधवागुपेतं क्षयं निवासस्थानं गृहं दधे । धृतवान् । भवति । देवयंतमित्यादयो गताः प्रप्र । प्रसमुपोदः पादपूरणे । पा ८-१-६ ॥ इति प्रशब्दस्य द्विर्भावः । अनुदात्तं चेत्याम्रेडितानुदात्तत्वम् । अस्थित । ष्ठा गतिनिवृत्तौ । लुङि समवप्रविभ्यः स्थः (पा १-३-२२) इत्यात्मनेपदम् । स्थाघ्वोरिच्छ (पा १-२-१७) इति धातुसिचोरित् । कित्त्वे ह्रस्वादंगात् (पा ८-२-२७) इति सलोपः । अंतर्वावत् । वागतिगंधनयोः अंतर्वांति गच्छंतीत्यंतर्वाः पुत्रपश्वादयः । आतो मनिन्नित्यादिना विच् । तदस्यास्तीति मतुप् । मतुपः पित्त्वादनुदात्तत्वे कृदुत्तरपद प्रकृतिस्वरत्वम् । यद्वा । वावदीतेः क्विप् । क्षयम् । क्षियंति निवसंत्यस्मिन्निति क्षयः पुंसि संज्ञायामित्यधिकरणे घः । क्षयो निवास इत्याद्युदात्तत्वं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१