मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४०, ऋक् ८

संहिता

उप॑ क्ष॒त्रं पृ॑ञ्ची॒त हन्ति॒ राज॑भिर्भ॒ये चि॑त्सुक्षि॒तिं द॑धे ।
नास्य॑ व॒र्ता न त॑रु॒ता म॑हाध॒ने नार्भे॑ अस्ति व॒ज्रिणः॑ ॥

पदपाठः

उप॑ । क्ष॒त्रम् । पृ॒ञ्ची॒त । हन्ति॑ । राज॑ऽभिः । भ॒ये । चि॒त् । सु॒ऽक्षि॒तिम् । द॒धे॒ ।
न । अ॒स्य॒ । व॒र्ता । न । त॒रु॒ता । म॒हा॒ऽध॒ने । न । अर्भे॑ । अ॒स्ति॒ । व॒ज्रिणः॑ ॥

सायणभाष्यम्

ब्रह्मणस्पतिर्देवः क्षत्रं बलमुप पृंचीत । स्वात्मनि संपृक्तं कुर्यात् । ततो राजभिर्वरुणादिभिः सह हंति । शत्रून्मारयति । भये चित् भीतिहेतौ युद्धेऽपि सुक्षितिं दधे । सुष्ठु निवासस्थैर्यं धारयति । न तु पलायते । वज्रिणो वज्राद्यायुधवतोऽस्य ब्रह्मणस्पतेर्महाधने प्रभूतधननिमित्ते युद्धे वर्ता प्रवर्तयिताऽन्यः कोपि नास्ति । स्वयमेव प्रवर्तत इत्यर्थः । महाधन इति संग्रामनाम । महाधने । समीक इति तन्नामसु पाठात् । तथा तरुता तरणस्योल्लंघनस्य कर्तान्यः कोपि नास्ति । तथैवार्भे स्वल्पे युद्धेऽप्यन्यः प्रवर्तयिता नास्ति ॥ पृंचीत । पृची संपर्के । लिङि रुधादित्वात् श्नम् । श्नसोरल्लोप इत्यकारलोपः । प्रत्ययस्वरः । क्षत्रं पृंचीत राजभिर्हंति चेति समुच्चयलक्षणस्य चार्थस्य दर्शनाच्चादिलोपे विभाषेति प्रथमायास्तिङ् विभक्तेर्निघातप्रतिषेधः । हंतीत्येषा द्वितीयापि तिङः परत्वान्न निहन्यते । सुक्षितम् । शोभना क्षितिः सुक्षितिः । मन् क्तिन्नित्यादिनोत्तरपदांतोदात्तत्वम् । वर्ता । वर्ततेर्वृणोतेर्वा तृच्यागमानुशासनस्यानित्यत्वादिडभावः । तरुता । तूृप्लवनतरणयोः । ग्रसितस्कभितेत्यादिना तृच्युडागमो निपातितः । चित इत्यंतोदात्तत्वम् । महाधने महच्चतद्धनं च महाधनम् । आन्महतः (पा ६-३-४६) इत्यात्वम् । तेन शब्देन तद्धेतुभूतः संग्रामो लक्ष्यते । अर्भे । ऋ गतौ । अर्तिगृभ्यां भन् उ ३-१५२ । इति भन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ २१ ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१