मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४१, ऋक् १

संहिता

यं रक्ष॑न्ति॒ प्रचे॑तसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
नू चि॒त्स द॑भ्यते॒ जनः॑ ॥

पदपाठः

यम् । रक्ष॑न्ति । प्रऽचे॑तसः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।
नु । चि॒त् । सः । द॒भ्य॒ते॒ । जनः॑ ॥

सायणभाष्यम्

प्रचेतसः प्रकृष्टज्ञानयुक्ता वरुणादयो देवा यं यजमानं रक्षंति स जनो यजमानो नू चित् क्षिप्रमेव दभ्यते । दभ्नोति । शत्रून् हिनस्ति । प्रचेतसः । प्रकृष्टं चेतो येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । नू चित् । ऋचि तुनुघेत्यादिना दीर्घः । दभ्यते दन्भु दंभे । व्यत्ययेन श्यन् आत्मनेपदं च ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२