मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४१, ऋक् ५

संहिता

यं य॒ज्ञं नय॑था नर॒ आदि॑त्या ऋ॒जुना॑ प॒था ।
प्र व॒ः स धी॒तये॑ नशत् ॥

पदपाठः

यम् । य॒ज्ञम् । नय॑थ । न॒रः॒ । आदि॑त्याः । ऋ॒जुना॑ । प॒था ।
प्र । वः॒ । सः । धी॒तये॑ । न॒श॒त् ॥

सायणभाष्यम्

हे नरो नेतार आदित्या यं यज्ञमृजुना पथाविकलेन मार्गेण नयथ पारं प्रापयथ स यज्ञो वो धीतये युष्मत्पानायोपभोगाय प्रणशत् । प्राप्नोतु ॥ नयथ । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः । अन्येषामपि दृश्यत इति संहितायां दीर्घत्वम् । पथा तृतीयैकवचने भस्य टीर्लोपः (पा ७-१-८८) इति टलोपः । अनुदात्तस्य च यत्रोदात्तलोप इति विभक्तेरुदात्तत्वम् । धीतये । धेट् पाने । आदेच इत्यात्वम् । क्तिचि घुमास्थेतीत्वम् । नशत् । नशतिर्गत्यर्थः । लेड्यडागमः । इतश्च लोप इतीकारलोपः ॥ २२ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२