मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४१, ऋक् ७

संहिता

क॒था रा॑धाम सखाय॒ः स्तोमं॑ मि॒त्रस्या॑र्य॒म्णः ।
महि॒ प्सरो॒ वरु॑णस्य ॥

पदपाठः

क॒था । रा॒धा॒म॒ । स॒खा॒यः॒ । स्तोम॑म् । मि॒त्रस्य॑ । अ॒र्य॒म्णः ।
महि॑ । प्सरः॑ । वरु॑णस्य ॥

सायणभाष्यम्

हे सखायः सखिभूता ऋत्विजो मित्रादीनां त्रयाणां महि महत् प्सरो रूपम् । अतस्तदनुरूपं स्तोमं स्तोत्रं कथा केन प्रकारेण राधाम । साधयामः । कथा । था हेतौ च छंदसि (पा ५-३-२६) इति किंशब्दात्प्रकारवचनेषु प्राग्दिशो विभक्तिरिति विभक्तिसंज्ञायां किमः कः (पा ७-२-१०३) इति कादेशः । प्रत्ययस्वरः । राधाम । राध साध संसिद्धौ । लेट बहुलं छंदसीति विकरणस्य लुक् । तिङ्ङतिङ इति निघातः । स्तोमम् । ष्टुञ् स्तुतौ । अर्तिस्तुस्वित्यादिना भावे मन् । नित्त्वादाद्युदात्तत्वम् । अर्यम्णः । षष्ठ्येकवचनेऽल्लोपोऽन इत्यकारलोपः । उदात्तनिवृत्तिस्वरेण विभकेरुदात्तत्वम् । महि मह पूजायाम् । औणादिक इन्प्रत्ययः । प्सरः । प्सा भक्षणे प्साति भक्षयतीति प्सरो रूपम् । औणादिको डरप्रत्ययः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३