मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४१, ऋक् ८

संहिता

मा वो॒ घ्नन्तं॒ मा शप॑न्तं॒ प्रति॑ वोचे देव॒यन्त॑म् ।
सु॒म्नैरिद्व॒ आ वि॑वासे ॥

पदपाठः

मा । वः॒ । घ्नन्त॑म् । मा । शप॑न्तम् । प्रति॑ । वो॒चे॒ । दे॒व॒ऽयन्त॑म् ।
सु॒म्नैः । इत् । वः॒ । आ । वि॒वा॒से॒ ॥

सायणभाष्यम्

हे मित्रादयो देवा देवयंतं देवान्कामयमानं यजमानं यः शत्रुर्हंति घ्नंतं तादृशं शत्रुं वो युष्मभ्यं मा प्रति वोचे । दुरुक्तकथनभीत्याहं न कथयामि । तथा यजमानं यः शत्रुः शपति तमपि शपंतं मा प्रति वोचे । भवद्भिरेव विचार्य शिक्षणीय इत्यर्थः । अहं तु सुम्नैरित् धनैरेव वो युष्माना विवासे । सर्वतः परिचरामि ॥ घ्नंतम् । हंतीति घ्नन् । गमहनेत्यादिनोपधालोपः । हो हंतेरिति कुत्वे प्रत्ययस्वरः । शपंतम् । शप आक्रोशे अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । वोचे । ब्रूञ् व्यक्तायां वाचि । माङि लुङीट ब्रुवो वचिः (पा २-४-५३) इति वचिः । अस्यतिवक्तीत्यादिना च्लेरङादेशः । वच उमित्युमागमः । न माङ्योग इत्यडभावः । देवयंतम् । सुप आत्मनः क्यच् । न छंदस्यपुत्रस्येतीत्वप्रतिषेधः । सुम्नैः । म्ना अभ्यासे । सुष्ठु म्नायतेऽभ्यस्यत इति सुम्नम् । आतश्चोपसर्ग इति कप्रत्ययः । आतो लोप इट चेत्याकारलोपः । विवासे । विनासतिः परिचरणकर्मा ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३