मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४१, ऋक् ९

संहिता

च॒तुर॑श्चि॒द्दद॑मानाद्बिभी॒यादा निधा॑तोः ।
न दु॑रु॒क्ताय॑ स्पृहयेत् ॥

पदपाठः

च॒तुरः॑ । चि॒त् । दद॑मानात् । बि॒भी॒यात् । आ । निऽधा॑तोः ।
न । दुः॒ऽउ॒क्ताय॑ । स्पृ॒ह॒ये॒त् ॥

सायणभाष्यम्

घ्नंतं शपंतं च मा प्रतिवोच इति यदुक्तं तत्रोपपत्तिरुच्यते । दुरुक्ताय न स्पृहयेत् । दुष्टं वाक्यं न कामयेत् किंतु दुरुक्ताद्बिभीयात् । तत्रावशिष्टो मंत्रभागः सर्वोपि दृष्टांतः । चिदित्युपमार्थे वर्तते । अक्षद्यूतं कुर्वतोरुभयोर्मध्ये यः पुमान् चतुरश्चतुः संख्याकान्कपर्दकान्ददमानाद्द दतो हस्ते धारयतः पुरुषात् । आ निधातोः कपर्दकनिपातपर्यंतं बिभीयात् अस्य जयो भविष्यति । न भविष्यतीत्यन्यो भीतिं प्राप्नुयात् । अत्र यथा भयं तथादुरुक्ताद्भेतव्यमिति धर्मरहस्यम् । तस्मादहं घ्नंतं शपंतं मा प्रतिवोच इत्यभिप्रायः । अत्र निरुक्तं चतुरोऽक्षान्धारयत इति । तद्यथा कितवाद्बिभियादेवमेव दुरुक्ताद्बिभीयान्न दुरुक्ताय स्पृहयेत् (नि ३-१६) इति ॥ चतुरः । चतुरः शसि (पा ६-१-१६७) इति विभक्तेः पूर्वस्योदात्तत्वम् । ददमानात् । दद दाने । अत्र धारणार्थः शपः पित्वादनुदात्तत्वम् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वेन शानजनुदात्तः धातुस्वरः एव शिष्यते । बिभीयात् । ञिभी भये । लिङि जुहोत्यादित्वाच्छपः श्लुः । यासुट उदात्तत्वम् । पादादित्वान्निघाताभावः । निधातो । निपूर्वाद्दधातेः सितनिगमीत्यादिना (उ १-७०) भावे शुन्प्रत्ययः । व्यत्ययेनाद्युदात्तत्वम् । तादौ चेति गतिस्वरो न भवति । अताविति पर्युदस्तत्वात् । दुरुक्ताय । स्पृहेरीप्सितः (पा १-४-३६) इति संप्रदानसंज्ञायां चतुर्थी संप्रधाने (पा २-३-१३) इति चतुर्थी । स्पृहयेत् । स्पृह ईप्सायाम् । चुरादिरदंतः । अतो लोपस्य स्थानिवद्भावाल्लघूपधगुणाभावः ॥ २३ ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३