मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४२, ऋक् १

संहिता

सं पू॑ष॒न्नध्व॑नस्तिर॒ व्यंहो॑ विमुचो नपात् ।
सक्ष्वा॑ देव॒ प्र ण॑स्पु॒रः ॥

पदपाठः

सम् । पू॒ष॒न् । अध्व॑नः । ति॒र॒ । वि । अंहः॑ । वि॒ऽमु॒चः॒ । न॒पा॒त् ।
सक्ष्व॑ । दे॒व॒ । प्र । नः॒ । पु॒रः ॥

सायणभाष्यम्

हे पूषन् जगत्पोषक पृथिव्यभिमानि देव अध्वनो मार्गात्सं तिर । अस्मानभीष्वस्थानं सम्यक् प्रापय । आंहो विघ्नहेतुं पाप्मानं वि तिर । विनाशय । पूषा विशेष्यते । विमुचो नपात् । जलविमोचकहेतोर्मेघस्य पुत्र । नपादिति पुत्र नाम । नपात्प्रचेति तन्नामसु पाठात् । श्रुत्यंतरेऽद्भ्यः पृथिवीति जलाद्भूम्युत्पत्तिः श्रूयते । तथान्यऽत्राप्युदकसारत्वं पृथिव्याः श्रूयते । तद्यदपां सार असीत्तत्समहन्यत सा पृथिव्यभवदिति । मेघस्य जलधारित्वादुदकपुत्र एव मेघपुत्रो भवति । न च पृथिव्या मेघपुत्रत्वे पूष्णः किमायातमिति वाच्यम् । पृथिव्या एव पूषत्वात् । तथा च श्रुत्यंतरे कस्यचिन्मंत्रस्य ब्राह्मणमेवमाम्नायते । पूषाध्वनः पात्वित्याहेयं वै पूषेति । तन्निर्वचनं चान्यत्रैवमाम्नायते । इयं वै पूषेयं हीदं सर्वं पुष्यति यदिदं किं च । शत ब्रा १४-४-२-२५ । इति । हे देव पूषन् नः पुरोऽस्माकं पुरतः प्रसक्ष्व । प्रसक्तो भव । पुरतो गच्छेत्यर्थः विमुचो नपात् । उदकं विमुंचतीति विमुङ् मेघः । क्विप्चेति क्विप् । न पातयति कुलमिति नपात् पुत्रः । नञ् पूर्वात् पातयतेः क्विप् । नभ्राण्नपादित्यादिना नञः प्रकृतिभावः । सुबामंत्रित इति परांगवद्भावात् षष्ठ्यामंत्रितसमुदायस्याष्टमिकं सर्वानुदात्तत्वम् । सक्ष्व । षच सेवने । अनुदात्तेत्त्वादात्मनेपदम् । लोट बहुलं छंदसीति शपो लुक् । शास्यनुदात्तेदिति लसार्वधातुकानुदात्तत्वे धातुस्वरः । प्र णः । उपसर्गाद्बहुलमिति नसो णत्वम् । पुरः । उक्तः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४