मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४२, ऋक् ९

संहिता

श॒ग्धि पू॒र्धि प्र यं॑सि च शिशी॒हि प्रास्यु॒दर॑म् ।
पूष॑न्नि॒ह क्रतुं॑ विदः ॥

पदपाठः

श॒ग्धि । पू॒र्धि । प्र । यं॒सि॒ । च॒ । शि॒शी॒हि । प्रासि॑ । उ॒दर॑म् ।
पूष॑न् । इ॒ह । क्रतु॑म् । वि॒दः॒ ॥

सायणभाष्यम्

हे पूषन् शग्धि । अस्माननुग्रहीतुं शक्तो भव । पूर्धि । अस्मद्गृहं धनेन पूरय । किंच प्रयंसि । अन्यदप्यपेक्षितं वस्तु प्रयच्छ । शिशीहि । अस्मान्सर्वेषु मध्ये तीक्ष्णीकुरु । तेजस्विनः कुर्वित्यर्थः । उदरमस्मदीयं प्रासि । मृष्टान्नेन सोमरसेन वा पूरय । अन्यत्पूर्ववत् ॥ शग्धि । शक्लृ । शक्तौ । लोटो हिः । बहुलं छंदसीति विकरणस्य लुक् । हुझल्भ्यो हेर्धिरिति धिरादेशः । हेरपित्त्वात्प्रत्ययस्वरेणोदात्तत्वम् । पूर्धि । पृ पालनपूरणयोः । श्रुशृणुपृकृवृभ्यश्छंदसीति हेर्धिरादेशः । पूर्ववद्विकरणस्य लुक् । उदोष्ठ्यपूर्वस्येत्युत्वम् । हलि चेति दीर्घः । तिङः परत्वान्निघाताभावः । यंसि यम उपरमे । लोडर्थे लट पूर्ववद्विकरणस्य लुक् । निघातः । शशीहि । शो शनूकरणे । लोट बहुलं छंदसीत्यभ्यासस्येत्वम् । ई हल्यघोरितीत्वम् । प्रत्ययस्वरः । प्रासि । प्रा पूरणे । अदादित्वाच्छपो लुक् । सिपः पित्त्वादनुदात्तत्वे धातुस्वरः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५