मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४२, ऋक् १०

संहिता

न पू॒षणं॑ मेथामसि सू॒क्तैर॒भि गृ॑णीमसि ।
वसू॑नि द॒स्ममी॑महे ॥

पदपाठः

न । पू॒षण॑म् । मे॒था॒म॒सि॒ । सू॒क्तैः । अ॒भि । गृ॒णी॒म॒सि॒ ।
वसू॑नि । द॒स्मम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

पूषणं देवं न मेथामसि । वयं न तु निंदामः । किंतु सूक्तैर्वेदगतैरभि गृणीमसि । सर्वत्र स्तुमः । दस्मं दर्शनीयं पूषणं प्रति वसूनि धनानीमहे । याचामहे मेथामसि । मेथृ मेधाहिंसनयोः । लटीदंतो मसिरिति मस इकारागमः । सूक्तैः । सुष्ठु स्तुवते देवताः प्रकाशयंतीति सूक्तानि । क्तिच् क्तौ च संज्ञायामिति कर्तरि क्तः । वचि स्वपीत्यादिना संप्रसारणम् । थाथादिस्वरः । यद्वा । कर्मणि निष्ठा । सूपमानात् क्तः (पा ६-२-१४५) इत्युत्तरपदांतोदात्तत्वम् । गृणीमसि । गृ शब्दे । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । इदंतो मसिः । दस्मम् । इषियुधींधिदसिश्याधूसूभ्यो मक् । उ १-१-१४४ । इति मक्प्रत्ययः ॥ २५ ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५