मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४३, ऋक् १

संहिता

कद्रु॒द्राय॒ प्रचे॑तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से ।
वो॒चेम॒ शंत॑मं हृ॒दे ॥

पदपाठः

कत् । रु॒द्राय॑ । प्रऽचे॑तसे । मी॒ळ्हुःऽत॑माय । तव्य॑से ।
वो॒चेम॑ । शम्ऽत॑मम् । हृ॒दे ॥

सायणभाष्यम्

कत् कदा रुद्रायै तन्नामकाय देवाय शंतममतिशयेन सुखकरं स्तोत्रं वोचेम । पठेम । कीदृशाय । प्रचेतसे । प्रकृष्टज्ञानयुक्ताय । मीळ्हुष्टमाय सेक्तृतमाय अभीष्टकामवर्षायेत्यर्थ । तव्यसेऽतिशयेन प्रवृद्धाय । हृदेऽस्मदीयहृन्निष्ठाय ॥ कत् । कदा । अंत्यलोपश्छांदसः । रुद्राय । रोदयति सर्वमंतकाल इति रुद्रः । रोदेर्णिलुक्च (उ २-२२) इति रक् प्रत्ययः । प्रचेतसे । चिती संज्ञाने । प्रकृष्टं चेततीति प्रचेताः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेत्यसुन् पूर्वपदप्रकृतिस्वरत्वं च मीळ्हुष्वमाय । अतिशयेन मीढ्वान् मीळ्हुष्टमः । दाश्वान् स्वाह्वान् मीढ्वांश्चेति क्वसुप्रत्ययांतो निपातितः । तमप्ययस्म यादित्वेन भत्वाद्वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वम् । तव्यसे । तवतिर्वृद्ध्यर्थः । सौत्रो धातुः । अतिशयेन तविता तवीयान् । तुश्छंदसी तीयसुन्प्रत्ययः । तुरिष्ठेमेयस्स्विति तृलोपः । ईयसुन ईकारलोपश्छांदसः । नित्त्वादाद्युदात्तत्वम् । वोचेम वच परिभाषणे । लिङ्याशिष्यङ् । वच उमित्युमागमः । यासुटः स्वरेणैकार उदात्तः । हृदे । पद्दन्नित्यादिना हृदयशब्दस्य हृदादेशः । ऊडिदमित्यादिना विभक्तेरुदात्तत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६