मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४३, ऋक् २

संहिता

यथा॑ नो॒ अदि॑ति॒ः कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे॑ ।
यथा॑ तो॒काय॑ रु॒द्रिय॑म् ॥

पदपाठः

यथा॑ । नः॒ । अदि॑तिः । कर॑त् । पश्वे॑ । नृऽभ्यः॑ । यथा॑ । गवे॑ ।
यथा॑ । तो॒काय॑ । रु॒द्रिय॑म् ॥

सायणभाष्यम्

अदितिर्भूमिर्नोऽस्माकं रुद्रियं रुद्रसंबंधि भेषजं यथा येन प्रकारेण सिध्यति करत् । तथा करोतु । किंच यथा येन प्रकारेण पश्वेऽस्मदीयाश्वमहिषादिपसवे नृभोऽस्मदीयपुरुषेभ्यो विशेषेण गवे गोजातये हितं रुद्रियं सिध्यति तथा करोतु । किंच तोकायास्मदीयापत्या रुद्रियं यथा सिध्यति तथा करोतु । भेषजस्य रुद्रसंबंधित्वं मंत्रांतरे समाम्नातम् । या ते रुद्र शिवा तनूः शिवा विश्वाहभेषजी । शिवा रुद्रस्य भेषजी । तै सं ४-५-१०-१ । इति गवादिविषयभेषजं चान्यत्र स्पष्टमाम्नातम् । भेषजं गवेऽश्वाय पुरुषाय भेषजमथो अस्मभ्यं भेषजं सुभेषजम् । तै सं १-८-६-१ । इति ॥ करत् । डुकृञ् करणे । लङि । व्यत्ययेन शप् । यद्वा । लेट्यडागमः । इतश्च लोप इतीकारलोपः । यद्वा । लुङि कृमृदुृरुभ्यश्छंदसीति च्लेरङादेशः । ऋदृशोऽङि गुण इति गुणः । आद्ययोः पक्षयोः प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः तृतीये तु व्यत्ययेन । यद्वृत्तयोगाद निघातः । पश्वे । संज्ञापूर्वकस्य विधेरनित्यत्वात् घेर्ङिति (पा ७-३-१०१) इति । गुणाभावः । यणादेश । नृभ्यः । नृचान्यतरस्याम् (पा ६-१-१८४) इति विभक्त्युदातत्वाभावः गवे । सावेकाच इति प्राप्तस्य विभक्त्युदात्तस्य न गोश्वन्साववर्णेति प्रतिषेधः । रुद्रियम् । रुद्रशब्दात्तस्येदमित्यर्थे घप्रत्ययः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६