मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४३, ऋक् ४

संहिता

गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला॑षभेषजम् ।
तच्छं॒योः सु॒म्नमी॑महे ॥

पदपाठः

गा॒थऽप॑तिम् । मे॒धऽप॑तिम् । रु॒द्रम् । जला॑षऽभेषजम् ।
तत् । श॒म्ऽयोः । सु॒म्नम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

रुद्रमभिलक्ष्य वयं शंयोर्बृहस्पतिपुत्रस्य संबंधि तत्प्रसिद्धं सर्वप्रजाभ्यो हितं सुम्नं सुखमीमहे । याचामहे । कीदृशं रुद्रम् । गाथपतिं स्तुतिपालकम् । मेधपतिं यज्ञपालकम् । जलाषभेषजं सुखरूपौषधोपेतम् । यद्वा । उदकरूपौषधोपेतम् । उदकं हि रुद्रनामाभिमंत्रितं सदौषधं भवति ॥ गाथपतिं ॥ गाथेति वाङ्नाम । गाथा गण इति तन्नामसु पठितत्वात् । वाग्रूपायाः स्तुतेः पतिर्गाथपतिः । कै गै रै शब्दे । अदेच इत्यात्वम् । उषिकुषिगार्तिभ्यस्थन्निति थन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । ङ्यापोः संज्ञा छंदसोर्बहुलमिति पूर्वपदस्य ह्रस्वत्वम् । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरे प्राप्ते मरुद्वृधादीनां छंदस्युपसंख्यानमिति पूर्वपदांतोदात्तत्वम् । मेधपतिम् । पूर्ववत् । जलाषभेषजम् । जनी प्रादुर्भावे । जायंत इति जाः । अन्येष्वपि दृश्यते (पा ३-२-१०१) इति दृशिग्रहणात्केवलादपि डप्रत्ययः । लाषः । लष कांतौ । कांतिरभिलाषः । भावे घञ् । जानां लाषो यस्मिंस्तज्जलाषं सुखम् । जलाषरूपं भेषजं यस्मिन्रुद्रे स जलाषभेषजः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । शंयोः । कंशंभ्याम् (पा ५-२-१३८) इति मत्वर्थीयो युस्प्रत्ययः । सिति च (पा १-४-१६) इति पदसंज्ञायामनुस्वारपरसवर्णौ । प्रत्ययस्वरः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६