मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४३, ऋक् ६

संहिता

शं नः॑ कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये॑ ।
नृभ्यो॒ नारि॑भ्यो॒ गवे॑ ॥

पदपाठः

शम् । नः॒ । क॒र॒ति॒ । अर्व॑ते । सु॒ऽगम् । मे॒षाय॑ । मे॒ष्ये॑ ।
नृऽभ्यः॑ । नारि॑ऽभ्यः । गवे॑ ॥

सायणभाष्यम्

आग्नि मारुते शं नः करोतीति धाय्या । अथ यथेतमिति खंडे सूत्रितं वैश्वानराय पृथुपाजसे शं नः करत्यर्वते (आ ५-२०) इति ।

नोऽस्माकं संबंधिभ्योऽर्वदादिभ्यः सुगं सुष्ठु गम्यं शं सुखं करति । देवः करोति । अर्वतेऽश्वाय । अर्वञ्शब्दोऽश्वनाम । अर्वा वाजीति तन्नामसु पाठात् । मेषाय मेषजातिपुरुषाय मेष्ये तज्जातीयस्त्रियै नृभ्यः पुरुषेभ्यो नारिभ्यः । स्त्रीभ्यो गवे गोजातये ॥ करति । डुकृञ् करणे । व्यत्ययेन शप् । अर्वते । अर्ति गच्छतीत्यर्वा । अन्येभ्योऽपि दृश्यंत इति वनिप् । चतुर्थ्येकवचनेऽर्वणस्त्रसावनञ इति नकारस्य तृ आदेशः । वनिप्सुपौ पित्त्वादनुदात्तौ । धातुस्वरः । मेषाय । मिष स्पर्धायाम् । पचाद्यच् देवसेनमेषादयः पचादिषु द्रष्टव्या इति वचनात् । मेष्ये । जातेरस्त्रीविषयादयोपधात् (पा ४-१-६३) ङीष्प्रत्ययः । प्रत्ययस्वरः । चतुर्थ्येकवचन आगमानुशासनस्यानित्यत्वादाडागमाभावः । उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्येति स्वरितत्वम् । उदात्तयणो हल्पूर्वादिति तु न भवति । सर्वे विधयश्छंदसि विकल्प्यंत इति वचनात् । नृभ्यः सावेकाच इति प्राप्तस्य विभक्त्युदात्तत्वस्य नृचान्यतरस्यामिति प्रतिषेधः । नारिभ्यः । नृनरयोर्वृद्धिश्च (पा ४-१-७३) इति शार्ङ्गरवादिषु पाठात् ङीन् प्रत्ययः । नित्त्वादाद्युदात्तः । गवे । न गोश्वन्साववर्णेति विभक्त्युदात्तस्य प्रतिषेधः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७