मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४३, ऋक् ९

संहिता

यास्ते॑ प्र॒जा अ॒मृत॑स्य॒ पर॑स्मि॒न्धाम॑न्नृ॒तस्य॑ ।
मू॒र्धा नाभा॑ सोम वेन आ॒भूष॑न्तीः सोम वेदः ॥

पदपाठः

याः । ते॒ । प्र॒ऽजाः । अ॒मृत॑स्य । पर॑स्मिन् । धाम॑न् । ऋ॒तस्य॑ ।
मू॒र्धा । नाभा॑ । सो॒म॒ । वे॒नः॒ । आ॒ऽभूष॑न्तीः । सो॒म॒ । वे॒दः॒ ॥

सायणभाष्यम्

हे सोम ते तव संबंधिन्यो याः प्रजाः संति स्तोत्रं वा कुर्वंति ताः प्रजाः मूर्धा शिरस्थानीयस्त्वं नाभा सन्नहनयुक्ते यज्ञ गृहे । वेनः कामयस्व । कीदृशस्य ते । अमृतस्य मरणरहितस्य परस्मिन्धामन्नृतस्य उत्तमे स्थाने प्राप्तस्य । हे सोम आभूषंतीः सर्वतस्त्वामलंकुर्वंतीः प्रजाः वेदः । जानीहि ॥ धामन् । सुपां सलुगिति सप्तम्या लुक् । नाभा । णह बंधने । नहो भश्च उ । ४-१२५ । इति कर्मणीञ्प्रत्ययः । ञित्त्वादाद्युदात्तत्वम् । सुपां सुलुगिति सप्तम्या डादेशः । वेनः । वेनतिः कांति कर्मा । लेट सिप्यडागदुः । तिङ्ङतिङ इति निघातः । आभूषंतीः । भूष अलंकारे । भौवादिकः । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरेणाद्युदात्तत्वम् । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । वेदः । विद ज्ञाने । लेट सिप्यडागमः ॥ २७ ॥ ८ ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७