मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४४, ऋक् २

संहिता

जुष्टो॒ हि दू॒तो असि॑ हव्य॒वाह॒नोऽग्ने॑ र॒थीर॑ध्व॒राणा॑म् ।
स॒जूर॒श्विभ्या॑मु॒षसा॑ सु॒वीर्य॑म॒स्मे धे॑हि॒ श्रवो॑ बृ॒हत् ॥

पदपाठः

जुष्टः॑ । हि । दू॒तः । असि॑ । ह॒व्य॒ऽवाहनः । अग्ने॑ । र॒थीः । अ॒ध्व॒राणा॑म् ।
स॒ऽजूः । अ॒श्विऽभ्या॑म् । उ॒षसा॑ । सु॒ऽवीर्य॑म् । अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बृ॒हत् ॥

सायणभाष्यम्

हे अग्ने त्वं जुष्टत्वादिविशेषगुणयुक्तोऽसि । जुष्टः सेवितो दूतो देवानां वार्ताहारो हव्यवाहनो हविषो वोढा अध्वराणां क्रतूनां रथीः रथस्थानीयः । तथा च मंत्रांतरं ब्राह्मणेनैव व्याख्यातम् । रथीरद्वराणामित्याहैष हि देवरथ इति । ब्राह्मणांतरं च । रथीरध्वराणामित्याह रथो ह वा एष भूतो देवेभ्यो हव्यं वहतीति । तादृशस्त्वमश्विभ्यां देवताभ्यामुषसा देवतया च सजूः सहितो भूत्वा सुवीर्यं शोभसवीर्योपेतं बृहत् प्रभूतं श्रवोऽन्नमस्मे धेहि । अस्मासु प्रक्षिप ॥ जुष्टः । जुषी प्रीतिसेवनयोः । नित्यं मंत इत्याद्युदात्तत्वम् । आसि । सिपि तासस्त्योर्लोपः (पा ७-४-५०) इति सलोपः । हि चेति निघातप्रतिषेधः । हव्यवाहनः । हव्यं वहतीति हव्यवाहनः । हव्येऽनंतःपाहम् (पा ३-२-६६) इति ञ्युट् । योरसादेशः । ञित्त्वादाद्युदात्तत्वे कृदुरपदप्रकृति स्वरत्वम् । अग्ने । पादादित्वादाष्टमिकनिघाताभावः । रथीः । रथशब्धात्स्वार्थिक ईकार प्रत्ययः । अध्वराणाम् । ध्वरो नास्त्येष्विति चहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । सुवीर्यम् । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । अस्मे । सुपां सुलुगिति सप्तम्याः शे आदेशः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८