मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४४, ऋक् ४

संहिता

श्रेष्ठं॒ यवि॑ष्ठ॒मति॑थिं॒ स्वा॑हुतं॒ जुष्टं॒ जना॑य दा॒शुषे॑ ।
दे॒वाँ अच्छा॒ यात॑वे जा॒तवे॑दसम॒ग्निमी॑ळे॒ व्यु॑ष्टिषु ॥

पदपाठः

श्रेष्ठ॑म् । यवि॑ष्ठम् । अति॑थिम् । सुऽआ॑हुतम् । जुष्टम् । जना॑य । दा॒शुषे॑ ।
दे॒वान् । अच्छ॑ । यात॑वे । जा॒तऽवे॑दसम् । अ॒ग्निम् । ई॒ळे॒ । विऽउ॑ष्टिषु ॥

सायणभाष्यम्

व्युष्टिषूषःकालेषु देवान् इतरान्सर्वदेवानच्छाभिमुख्येन यातवे गंतुमग्निं देवमीळे । स्तौमि । कीदृशम् । श्रेष्ठमतिशयेन प्रशस्तं यविष्ठं युवतमं अतिथिं सततगमनक्षमं स्वाहुतं सुष्ठु आ समंताद्धोमाधिकरणं दाशुषे हविर्दत्तवते जनाय यजमानाय जुष्टं प्रीतं जातवेदसं जातानां वेदितारं ॥ यविष्ठम् । युवशब्दादिष्ठनि स्धूलदूरेत्यादिना यणादेः परस्य लोपः । पूर्वस्य च गुणः । अवादेशः । नित्त्वादाद्युदात्तत्वम् । अतिथिम् । अत सातत्यगमने । ऋुतन्यंजीत्यादिना (उ ४-२) इथिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । स्वाहुतम् । हु दानादनयोः । आहूयतेऽस्मिन्नित्याहुतः । सुः पूजायाम् (पा १-४-९४) इति सुशब्दस्य कर्मप्रवचनीयसंज्ञायां स्वती पूजायाम् (पा २-२-१८) इति समासः । अव्यय पूर्वपदप्रकृतिस्वरत्वम् । न च गतिकारकोपपदाश्कृदिति गतेः प्रकृतिस्वरत्वम् । अस्य सुशब्दस्य गतिसंज्ञाया बाधितत्वात् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८