मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४४, ऋक् ६

संहिता

सु॒शंसो॑ बोधि गृण॒ते य॑विष्ठ्य॒ मधु॑जिह्व॒ः स्वा॑हुतः ।
प्रस्क॑ण्वस्य प्रति॒रन्नायु॑र्जी॒वसे॑ नम॒स्या दैव्यं॒ जन॑म् ॥

पदपाठः

सु॒शंसः॑ । बो॒धि॒ । गृ॒ण॒ते । य॒वि॒ष्ठ्य॒ । मधु॑ऽजिह्वः । सुऽआ॑हुतः ।
प्रस्क॑ण्वस्य । प्र॒ऽति॒रन् । आयुः॑ । जी॒वसे॑ । न॒म॒स्य । दैव्य॑म् । जन॑म् ॥

सायणभाष्यम्

हे यविष्ठ्य युवतमाग्ने त्वं गृणते स्तुवते यजमानार्थं सुशंसः सुष्ठु शंसनीयो मधुजिह्वो मादयितृज्वालः स्वाहुतः सुष्ठु अभिमुख्येन हुतः सन् बोधि । अस्मदभिप्रायं बुध्यस्व । किंच प्रस्कण्वस्यैतन्नामकस्य कण्वपुत्रस्य । महर्षेः । प्रस्कण्वः कण्वस्य पुत्रः कण्वप्रभवः (नि ३-१७) इति यास्कवचनात् । तस्य जीवसे जीवनार्थमायुः प्रतिरन् प्रकर्षेण वर्धयन्दैव्यं देवसंबंधिनं जनं नमस्य । पूजय ॥ सुशंसः । शन्सुस्तुतौ । भावे घञ् । शोभनः शंसो यस्यासौ सुशंसः । आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । बोधि । बुध आवगमने लोटो हिः । बहुलं छंदसीति विकरणस्य लुक् । हुझल्भ्यॊहेर्धिरिति हेर्धिरादेशः । वा छंदसीत्यपित्त्वस्य विकल्पितत्वाल्लघूपधगुणः । श्नाभ्यस्तयोरात इत्याकारलोपः । शतुरनुम इति विभक्तेरुदात्तत्वम् । यविष्ठ्य । गतम् । प्रस्कण्वस्य । प्रभूतिरुत्पत्तिः कण्वाद्यस्य स प्रस्कण्वः । प्रस्कण्वहरिश्चंद्रावृषी (पा ६-१-१५३) इति सुडागमो निपातितः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । प्रतिरन् । प्रपूर्वस्तिरतिर्वर्धनार्थः । नमस्य । नमोवरिवश्चित्रङः क्यजिति पूजार्थे क्यच् । प्रत्ययस्वरः । अन्येषामपि दृश्यत इति । संहितायां दीर्घत्वम् । दैव्यम् । देवाद्यञञौ (पा ४-१-८५) ३ । इति तस्येदमित्यर्थे प्राग्दीव्यतीयो यञ्प्रत्ययः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९