मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४४, ऋक् ७

संहिता

होता॑रं वि॒श्ववे॑दसं॒ सं हि त्वा॒ विश॑ इ॒न्धते॑ ।
स आ व॑ह पुरुहूत॒ प्रचे॑त॒सोऽग्ने॑ दे॒वाँ इ॒ह द्र॒वत् ॥

पदपाठः

होता॑रम् । वि॒श्वऽवे॑दसम् । सम् । हि । त्वा॒ । विशः॑ । इ॒न्धते॑ ।
सः । आ । व॒ह॒ । पु॒रु॒ऽहू॒त॒ । प्रऽचे॑तसः । अग्ने॑ । दे॒वान् । इ॒ह । द्र॒वत् ॥

सायणभाष्यम्

होतारं होमनिष्पादकं विश्ववेदसं सर्वज्ञं त्वामग्निं विशः प्रजाः समिंधते हि । सम्यग्दीपयंति खलु । हे पुरुहूत बहुभिराहूताग्ने स त्वं प्रचेतसः प्रकृष्टज्ञानयुक्तान्देवानिह कर्मणि द्रवत् क्षिप्रमा वह । अभिमुख्येन प्रापय । द्रवदिति क्षिप्रनाम । द्रवदोषमिति तन्नामसु पाठात् । विश्ववेदसम् । विश्वानि वेत्तीति विश्ववेदाः । असुन् । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । यद्वा । वेद इति धननाम । विश्वानि वेदांसि यस्यासौ विश्ववेदा । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वम् । इंधशे । ञिइन्धी दीप्रौ । श्नसोरल्लोप इत्यकारलोपः । श्नान्नलोपः (पा ६-४-२३) प्रत्ययस्वरः । हि चेति निघातप्रतिषेधः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९