मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४४, ऋक् ८

संहिता

स॒वि॒तार॑मु॒षस॑म॒श्विना॒ भग॑म॒ग्निं व्यु॑ष्टिषु॒ क्षपः॑ ।
कण्वा॑सस्त्वा सु॒तसो॑मास इन्धते हव्य॒वाहं॑ स्वध्वर ॥

पदपाठः

स॒वि॒तार॑म् । उ॒षस॑म् । अ॒श्विना॑ । भग॑म् । अ॒ग्निम् । विऽउ॑ष्टिषु । क्षपः॑ ।
कण्वा॑सः । त्वा॒ । सु॒तऽसो॑मासः । इ॒न्ध॒ते॒ । ह॒व्य॒ऽवाह॑म् । सु॒ऽअ॒ध्व॒र॒ ॥

सायणभाष्यम्

हे स्वध्वर शोभनयागयुक्ताग्ने । व्युष्टिपूषःकालेषु श्रवोऽन्नामाहुतिरूपमभिलक्ष्य सवित्रादीन्देवानावहेत्यनुवर्तते । स्वध्वरेत्याहवनीयाग्नेः संबोधनम् । अग्निमिति हविष उद्देश्यं देवतांतरमुच्यते सुतसोमासोऽभिषुतसोमाः कण्वासो मेधाविन ऋत्विजो हव्यवाहं हविषः प्रापकमाहवनीयं त्वामिंधते दीपयंति ॥ व्युष्विषु । उछी विवासे । विवासो वर्जनम् । व्युच्छ्यते तमसा वर्ज्यत इति व्युष्टिरुषःकालः । कर्मणि क्तिनि क्तादौ च नितीति गतेः प्रकृतिस्वरत्वम् । संहितायामुदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरितत्वम् । क्षपः । क्षपेति । रात्रिनाम । ङस्यातो धातोः (पा ६-४-१४०) इत्यत्रात इति योगविभागादाकारलोपः । सुतसोमासः । सुतः सोमो यैः । निष्ठेति पूर्वनिपातः (पा २-२-३६) बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । हव्यवाहम् । हव्यं वहतीति हव्यवाट् । वहश्चेति ण्विप्रत्ययः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९